________________ श्रीभावप्रभसूरिकृतम् “अस्य क्षोणिपतेः परार्धपरया लक्षाधिका संख्यया / प्रज्ञा चक्षुरवेक्ष्यमाणतिमिरप्रख्याः कलिकाकीर्तयः / गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरान् मूकानां प्रकरण कूर्मरमणीदुग्धोदधे ! रोधसि // 1 // " शार्दूल० इत्यादि सर्वं वाङ्मात्रमेव / तथा जैनधर्मं विना सर्वमपि वस्तु शून्यम् / अतो जैनधर्मे नित्यमादरः कर्तव्यः / पुनः पापोदयाञ्जनस्तं नाभिलषति / यतः "३तीर्णे सङ्कीर्णजीर्णे दिशि दिशि विलुलत्कोकिलाबद्धजाले गेहे दूरूपकान्तारटनविनटितः कन्यकाभारभग्नः / नानाधिव्याधिविद्धः कदशनशयनैः कष्टचेष्टानुजीवी क्रीडापात्रं जनानां तदपि हि सततं मोदते पापसक्तः // 1 // स्रग्० एवंविधोऽपि मोहात् पापकुटुम्बं पोषयति / परं दुःखोदये न कोऽपि रक्षति तम् / दृष्टान्तमाह "पीयू पेण सुराः श्रिया मुररिपुर्मर्यादया मेदिनी स्वर्गः कल्परुहा शशाङ्ककलया श्रीशङ्करस्तोषितः / मैनाकादिनगा पनगारिभयतो यत्नेन संरक्षिता मच्चूलूकरणे घटोद्भवमुनिः केनापि नो वारितः // 1 // " शार्दूल० अतो धर्मतः सुखं भवति / यतः"सुकुलजन्म विभूतिरनेकधा प्रियसमागमसौख्यपरम्परा / नृपकुले गुरुता विमलं यशो भवति धर्मतरोः फलमीदृशम् // 1 // द्रुतविलम्बितम् सविनयास्तनया दयिता हिता नयभवा विभवोऽनुगुणा गुणाः / वपुरनाधि समाधिरतिर्नृणां शुभतरोः प्रथमेऽङ्करका इमे // 2 // " द्रुत० 1. इदं पद्यं सुभाषितरत्नभाण्डागारेऽपि दृश्यते, किन्तु तत्र प्रथमचरणद्वये पाठान्तरं तु यथा __ "अस्य क्षोणिपतेः परार्धपरया लक्षीकृताः संख्यया .. प्रज्ञाचक्षुरवेक्ष्यमाणबधिरश्राव्याः किलाकीर्तयः" 2. 'वदुर०' इति क-पाठः / 3. तृणनिर्मिते / 4. इदं पदं सुभाषितरत्नभाण्डागारेऽप्युपलभ्यते, परन्तु तत्र तृतीयतुरीयचरणौ तु यथा 'मैनाकाहिनगा निजोदरगताः संस्थानतः स्थापिता स्त्वच्चूलीकरणे घटो०' 5. इन्द्रभयात् /