________________ श्रीजैनधर्मवरस्तोत्रम् क्रोशशतं गच्छति, अन्यस्तूष्ट्रः सञ्चय इति नाम्ना एकया घटिकया क्रोशशतं व्रजति / तत इतः स्थानान्नंष्ट्वा भवदीयस्थानं गम्यते / इत्युक्त्वा उत्तालतया सम्भ्रमेण सञ्चय दीर्घग्रीवं विमुच्य टाकं सज्जीकृत्य रत्नादिबहुमूल्यसूक्ष्मवस्तूनि गृहीत्वा तमारुह्य तौ दम्पती पलायनं चक्राते / कञ्चुकिना तज्जनकाय ज्ञापितम् / राक्षसोऽपि सञ्चयं स्थितं विलोक्य हर्षितोऽस्याग्रे क्व यास्यतीति विचिन्त्य सद्य एनमारुह्य तन्मार्गमनुययौ / इतश्च कुमार्या पश्चादवलोकनेन दृष्टो जनक आगतो विभीतम्, भो भर्तः ! अमुं वटं शीघ्रं समारोह / तेनापि तथैव कृतम् / ततो मतिमत्या कमलया प्रोक्तम्-भो तात ! अत्र एहि एहि / मया पलायमानः पुरुषः सादरं रुद्धोऽस्ति / (तत्) श्रुत्वा हृष्टोऽसौ वटाधस्तादागत्य सञ्चयक्रमेलकरज्जु पुत्र्यै दत्वा वैश्रमणालयमारुरोह / राक्षसो यावदुत्पतन् हरेः शाखायां ग्रहणार्थमायाति, तावत् हरिरन्यशाखां याति / एवं तद्भीत्या शाखान्तरं गच्छन् यस्याः शाखाया अधः सञ्चयोऽस्ति तां शाखामधितिष्ठति / तदुपा( त्पा )तं च ऊर्ध्वदृष्ट्या विलोकयति हरिः / तदा कुमार्या प्रोक्तम्-भो जीवितेश ! मूढ इव किं विलोकयसि ? अधुना टाकसञ्चयौ मिलितौ / आवयोः कार्यसिद्धिर्जाता / शाखात उत्प्लुत्य सञ्चयमारोह / तेनापि तथैव कृतम् / ततः स्थानात् ताभ्यां तावुष्ट्रौ वाहितौ / स्तोकमध्वानं गताभ्यां तावत् सुरभिप्रफुल्लपुष्पपल्लवादिसमृद्धं शतशः सहस्रांशुकिरणपुर्धारिद्धमिव दीप्यमानं वनं ददृशे / ततोऽग्रे गच्छभ्द्यामेकतो हस्तिन एकतो व्याघ्रा मृगाः शशकाः शूकरा रेजाहका अहयो नकुला मूषका मार्जाराः पक्षिण इत्याद्यनेकजीवाः सस्नेहं सादरं संमिलिता उपशान्ता गतवैरा दत्तकर्णास्तिष्ठन्तो दृष्टाः तदनन्तरं चञ्चत्काञ्चनकमलाधिष्ठितः प्राप्तकेवलज्ञानः सुरासुरनरसेव्यमानः प्रधानधर्मोपदेशं ददानः सुसाधुदृश्यते स्म / ततः प्राप्तचमत्कारौ तौ झटिति "मयाभ्यामवतीर्य सादरं तं नत्वोपविष्टौ / केवली धर्मोपदेशं दिदेश / यतः “छिन्नमूलो यथा वृक्षो, गतशीर्षों यथा भटः / धर्महीनो धनी तावत्, कियत्कालं प्रशस्यते ? // 1 // अनु० यस्य धर्मविहीनानि, दिनान्यायान्ति यान्ति च / स लोहकारभस्त्रेव, श्वसन्नपि न जीवति // 2 // अनु० नाच्छादयति कौपिनं, न दंशमसकापहम् / शुनः पुच्छमिव व्यर्थं, पाण्डित्यं धर्मवर्जितम् // 3 // " अनु० पुनः पाषण्डिभिः प्रकल्पिते धर्मे परमार्थतः शून्ये जगत्पतिस्तं वरीवृतीति / यथा वन्ध्यापुत्रो मरुमरीचिकाजलस्रोतगात्रो गगनारविन्दविनिर्मितमालाधरः शशकशृङ्गनिर्मापितधन्वाऽलङ्कृतहस्तो याति / काव्यम्१. उष्ट्रम् / 2. वटम् / 3. 'जाहको गात्रसङ्कोची' इति हैम: ( का० 4. श्लो० 368), 'सेलो' इति लोके। 4. उष्ट्राभ्याम् /