________________ श्रीभावप्रभसूरिकृतम् "मुखं पद्मदलाकारं, वाचा चन्दनशीतला / हृदयं कर्तरीयुक्तं, त्रिविधं धूर्तलक्षणम् // 1 // अनु० १धूत्ता हुइ सुलक्ष( ख )णा, वेश्या( सा) हुइ सलज्जा // षारां पाणी शीअलां, बहुफल फलै अकज्ज // 2 // " अनु० स्वस्य कार्यं कृत्वा मां दुर्दशां प्रापयिष्यति / ततो मौनालम्बितो गमनं कुर्वाणः / ततस्तापसेन सैंहीं तनुं विकुळ स गले ग्रस्तः, ततः स महामन्त्रं पपाठ / तत्क्षणमेनं मुक्त्वा स पलायाञ्चक्रे / ततो हरिनिर्विघ्नीभवन् पन्थानं जगाम / इत उल्लालितशुण्डा-दण्डं प्रचण्डहस्तिनं समायान्तं वीक्ष्य नमस्कारमन्त्रेण दूरीचकार / ततो महाभोग-भोगिनं क्रोधकरालं जङ्गमयमकरवालमिवापतन्तं समीक्ष्य परमेष्ठिध्यानेन पुच्छेन गृहीत्वा दूरमुच्चिक्षेप / एवं तस्य हरेर्गच्छतः सतोऽपराह्ने एकं 'कनकपुर'मागतम् / स तत्र सुवर्णसोपानपङ्क्तिविराजितं स्वच्छजलपरिपूर्णं गुञ्जन्मधुकरनिकरसेव्यमानकमलं सरोवरं दृष्ट्वा प्रौढपालिपादपालिच्छायायां स्थितः सर्वतः शोभां पश्यति स्म / नगरस्य स्वर्णमयो वप्रः, रत्नमयानि कपिशीर्षणि, सप्तभूमाः प्रासादा गवाक्षादिशोभमानाः, देवस्वरूपा नराः, देवीसमाना नार्यः, शिरसा धृतस्वर्णकुम्भाः स्तननिर्जितहस्तिकुम्भाः पानीयहारिण्य इत्यादीनि विलोक्य मनसि विचारयति-अहो . ! यद्यत्र नागमिष्यं, तदा लोचनवञ्चितो भविष्यम्, परं न ज्ञायते यन्मदीयोपाध्यायेनायं मार्गो निषिद्धः / इतश्च भूपतेरमात्यो बहुपरीवारसहितः स्त्रीभिर्धवलमङ्गलं गीयमानकारयंस्तत्रागत्य हरेहरिललाटपट्टे कौङ्कम तिलकं विधाय हे नररत्न ! अस्मदीयनरसिंहनृपस्य कमलाभिधानायाः कुमार्यास्त्वया सह विवाहो मेलितः, गम्यतां नृपौकसि / इत्युदित्वा हरिमादाय नृपान्तःपुरे कुमारीसमीपे निधाय लग्नवेलायां पाणिग्रहणं भविष्यतीत्युक्त्वा च स्वस्थानं जग्मिवान् / हरि: कमलां कमलामिव सुरूपां मृगीदृशं विलोक्य जहर्ष / अथ कमला प्राह-भोऽमररत्न ! किं स्वस्थचित्तस्तिष्ठसि ? यतो मदीयजनको मानवभक्षको राक्षसोऽस्ति, तत ईदृग्विधानेन मायामुद्भाव्य त्वमत्रानीतोऽसि, रात्रेः पश्चिमयामे शेषे सोऽत्रागत्य त्वद्भक्षणं करिष्यति / इति निशम्य किंकर्तव्यतामूढः स समजायत, परं परमेष्ठिमन्त्रस्मरणेन धीरत्वं दधार / ततस्तया पुनरभाणि-अहं यौवनस्था वर्ते, मया त्वमेव भर्ता हृदि धृतः, अतो मा भैषीः / तेनाप्युक्तम्-मम जीवितगतिस्त्वमेवासि / ततो निशि कुमार्या तदानीं संक्षेपतो विवाहसामग्री प्रच्छन्नं कृत्वा स परिणीतः / उक्तं चहे भर्तः ! मम जनकस्य द्वौ क्रमेलको स्तः / तयोर्मध्ये एक उष्ट्रः टाक इति नाम्ना यामार्धन 1. तात्पर्यम् धूर्ता भवन्ति शतलक्षणा वेश्या भवति सलज्जा / क्षाराणि पानीयानि शीतलानि बहुफलैः फलन्ति अकार्याः (वृक्षाः) //