________________ श्रीजैनधर्मवरस्तोत्रम् देहल्यामुपवेशिनी विकथिनी दन्तैः षटत्कारिणी निःशौचांहिविकर्तिनी परिगृहस्थाणुश्च दुर्गेहिनी // 1 // " शार्दूल० इति / तथा अपत्येषु स्नेहहीनाभ्यां पितृभ्यां किम् ? / तदा हरिणा प्रोक्तम्-तत्र गत्वाऽवश्यं मया समागन्तव्यमत्रेति कथयित्वा गमनाय सज्जो बभूव / तदा तेनोक्तम्-हे हरे ! हे पुत्र ! त्वं दक्षिणस्यां दिशि उत्तरस्यां दिशि च मार्ग मा गाः, विषमः पन्था अस्ति, तयोर्विचालमार्गं गच्छेः / ततः शिक्षां गृहीत्वा हरिश्चचाल पन्थानम् / दैवादुत्तरस्यां दिशि सन्ध्यायामेकं ग्रामं ययौ / तत्रत्येन मूर्खेण केनचित् पृष्टः-कस्त्वम् ? / तेनोचे-पठितशास्त्रो विप्रोऽस्मि / तदा स तं प्राह-कण्टकमर्दकस्य नाम निगदतु / तेन पुस्तकं प्रविलोकितम् / तस्यार्थो न लब्धः / चिन्तितं च धिङ् मां खण्डपण्डितम् / यतः "खण्डखण्डेषु पाण्डित्यं, क्रयविक्रयमैथुनम् / भोजनं च पराधीनं, त्रयं पुंसां विडम्बना // 1 // " अनु० तूष्णी स्थितः / प्रातरुत्थाय पश्चादुपाध्यायसमीपमाजगाम / तेनागमनकारणं पृष्टम् / ततो हरिः कण्टकमर्दकस्यार्थं प्रपच्छ / मा भूः पठितमूर्खः / यतः "काव्यं करोतु परिजल्पतु संस्कृतं वा सर्वाः कला: समधिगच्छतु वाच्यमानाः / लोकस्थितिं यदि न वेत्ति यथाऽनुरूपं . सर्वस्य मूर्खनिकरस्य च (स?) चक्रवर्ती // 1 // " वसन्त० इत्युक्त्वा अध्यापकेन तस्यार्थो गदित-उपानदिति / पुनः सम्भ्रान्त्या यामी दिशं चचाल / मार्गे मुक्तजैनवेष एकः सिद्धपुत्रो मिलितः / तेन सह गोष्ठिर्जाता / सिद्धपुत्रेण सौहार्दवशात् तस्मै परमेष्ठिमन्त्रोऽर्पितः / कथितं च सातिशय एषोऽस्ति / उच्चारणात्रतः सर्वा भीतयो नाशं यान्ति / इयमेव महती गायत्री, इतरा तु ॐ भूर्भुस्वः सवितुर्वरेण्यमित्यादिरूपा प्रतिच्छायारूपा वर्तते / इत्युक्त्वा सिद्धपुत्रः स्वस्थानं शिश्राय / ततो हरिर्मार्गं गच्छन् सहसा व्याघ्रं ददर्श / ततो भीतः सन् परमेष्ठिमन्त्रं सस्मार / व्याघ्रस्तु तत्कालं पलायत, चमत्कारं प्राप / ततोऽग्रेऽध्वनि गच्छन् श्रान्तः सन् वटवृक्षच्छायायां निद्रां गतः / इतोऽजगरेण गृहीतो जाग्रत् 'रेनमो अरिहंताणं' इति जजल्प सः / तत्कालमेव नष्टो 'वाहस एनं मुक्त्वा / ततो हृष्टो हरिरग्रे गच्छन्नेकं तापसं जटाधारिणं भस्मावगुण्ठितदेहं रक्ताक्षमद्राक्षीत् / ततः प्रणामो विहितः / सोऽपि हरिमभाषिष्ट-भो वत्स ! अत्र गिरिणदीसमीपगिरिगुहायां रसकूपिका वर्तते येन रसेन स्वर्णसिद्धिर्भवति / अत एहि / अत्र आवां रसं निष्कासयावः / त्वद्दारिद्रं हरामि / हरिणा चिन्तितम्-धूर्तोऽयम् / यतः 1. दक्षिणाम् / 2. इत्यादिपदेन 'भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्' इति ज्ञेयम् / 3. नमोऽर्हद्भ्यः / 4. अजगरः /