________________ श्रीभावप्रभसूरिकृतम् इति / तथापि च आर्यदेशत्वं दुर्लभम् / सुकुले जन्म पञ्चेन्द्रियपटुता दीर्घायुः सुगृहस्थता सद्गुरुसंयोगः श्रद्धा मेधा धृतिर्धारणेत्यादिकं च दुर्लभम् / परं च पुण्योदयवशात् सम्यक्त्वपूर्वकदेशविरतिसर्वविरतिधर्मों टाकसञ्चयक्रमेलकाविव यदि प्राप्येते, तदा वाञ्छितसुखप्राप्तिर्भवति / को टाकसञ्चयक्रमेलको (तत्) कथानकद्वारेण दर्शयति स्वच्छ कच्छ देशे धनधान्यद्धिसमृद्धिसदनं सदासुखिलोकधनं धृतजिनचैत्यमण्डनं कृतकुग्रहखण्डनं 'सेलडी'त्यभिधानं ग्रामं बभूव / तत्र सङ्ग्रामसिंहो नृपतिर्विजयते स्म / तस्य बहुसुन्दरमन्तःपुरमभूत् / तत्र जैनधर्मरताः श्राद्धा दानशालिनः संयतभक्ता आसन् / पुनस्तत्र बहवो विप्राः सदा वेदाध्ययनविधायिनस्तिष्ठन्ति स्म / तेषु धवल इत्याख्यया एको विप्रो बहुविद्याभृद् भूपतेः प्राप्तवर्षासनो लक्ष्मीपूर्णः २सकर्ण उवास / तस्य कल्लूकावल्लूकाभिधे द्वे भार्येऽभूताम् / कल्लूकायाः कुक्षिसमुद्भूतो हरिसंज्ञकः पुत्रोऽस्ति / अपरस्या वेल्लकनामा पुत्रो वर्तते / एवं स सुखेन कालं गमयति स्म / परं ते सपल्यौ परस्परं कलहं चक्रतुः / तदा पृथक् पृथग् गृहं काराप्य सन्मुखं स्थापिते / वारकेण तयोर्गृहे भुङ्क्ते // एकदा एकस्या गृहे भुक्त्वा यावदुत्थितः, तावत् संमुखस्थितया प्रतियुवत्या निजगृहे भर्तुराकर्षणार्थं पदं प्रोक्तम्-भुक्त्वा शतपदं गच्छेत्, तदा अनया प्रोक्तम्-यदि शय्या न लभ्यते, तदा पुनः प्रतियुवत्या प्रोक्तम्-"शय्यायां जायते रोगः, तदा पुनस्तया प्रोक्तम्"शयनं सुन्दरी विना / इत्यही सपत्नीत्वं स्त्रीणां दुःसहम् / यतः “६वरि हलिउवि हु भत्ता अनन्नभज्जो गुणेहिं रहिओवि / मा सगुणो बहुभज्जो, जइ राया चक्कवट्टीवि // 1 // आर्या वरि गब्भंमि विलीणा, वरि जाया कंतपुत्तपरिहीणा / मा ससवेत्ता( वत्ती?) महिला, हविज्ज जम्मेवि जम्मेवि // 2 // जइवि ह भत्ता सरिसो, होइ कलत्तेस सव्वकज्जेस / तहवि हु ताण मणेसुं, अत्ताणे थोवपरिहावो // 3 // 1. उष्ट्रौ / 2. पण्डितः / 3. सपल्या / 4. 'दिवसे दोषपोषाय' इत्यपि पाठः / 5. 'सन्निधौ कामिनी विना' इति पाठान्तरम् / 6. छाया-वरं हालिकोऽपि हि भर्ताऽनन्यभार्यो गुणै रहितोऽपि / मा सगुणो बहुभार्यो यदि राजा चक्रवर्त्यपि // 1 // वरं गर्भे विलीना वरं जाता कान्तपुत्रपरिहीणा / मा ससपत्नी महिला भवतु जन्मन्यपि जन्मन्यपि // 2 // यद्यपि हि भर्ता सदृशो भवति कलत्रेषु सर्वकार्येषु / तथापि हि तेषां मनस्स्वात्मनि स्तोकपरिभावः // 3 //