________________ श्रीजैनधर्मवरस्तोत्रम् दैवादाढ्यजनेन तेन सपुनर्जीयेत मन्त्री क्वचिद् भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो // 4 // रत्नान्याढ्यसुतैर्वितीर्य वणिजां देशान्तरादीयुषां पश्चात्तापवशेन तानि पुनरादातुं कृतोपक्रमैः / लभ्यन्ते निखिलानि दुर्घटमिदं दैवाद् घटेत क्वचिद् भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो // 5 // १राधाया वदनादधः क्रमवशाच्चक्राणि चत्वार्यथर भ्राम्यन्तीह विपर्ययेण तदधो धन्वी स्थितोऽवाङ्मुखः / तस्या वामकनीनिकामिषुमुखेनैवाशु विध्यत्यहो भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो // 6 // स्वप्ने कार्पटिकेन रात्रिविगमे श्रीमूलदेवेन च प्रेक्ष्येन्दं सकलं कनिर्णयवशाहपं फलं प्राप्यते / स्वप्नस्तेन पुनः स तत्र शयितेनालोक्यते कुत्रचित् भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो // 7 // दृष्ट्वा कोऽपि हि कच्छपो हृदमुखे शेवालबन्धच्युते पूर्णेन्दु मुदितः कुटुम्बमिह तं द्रष्टुं समानीतवान् / शेवाले मिलिते कदापि स पुनश्चन्द्रं किलालोकते भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो // 8 // ५शम्या पूर्वपयोनिधौ निपतिता भ्रष्टं युगं पश्चिमाम्भोधौ दुर्धरवीचिभिश्च सुचिरात् संयोजितं तद् द्वयम् / ६शम्या सा प्रविशेद् युगस्य विवरे तस्य स्वयं कापि चेद् भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो // 9 // चूर्णीकृत्य पराक्रमान् मणिमयस्तम्भं सुरः क्रीडया मेरौ सन्नलिकासमीरवशतः क्षिप्त्वा रजो दिक्षु चेत् / स्तम्भं तैः परमाणुभिः सुमिलितैः कुर्यात् स चेत् पूर्ववद् भ्रष्टो मर्त्यभवात् तथाप्यसुकृती भूयस्तमाप्नोति नो // 10 // " 1. पुत्तलिकायाः / 2. 'यपि' इत्यध्यात्मकल्पद्रुमटीकायां पाठः / 3. 'प्राप्य च' इत्यपि पाठोऽध्यात्मकल्पद्रुमटीकायाम् / 4. 'समालोकते' इत्यध्यात्मकल्पद्रुमटीकायां पाठः / 5. युगकीलकः / 6. 'सा शम्या' इति पाठान्तरमध्यात्मकल्पद्रुमटीकायाम् /