________________ श्रीजैनधर्मवरस्तोत्रम् गले गृह्णाति, तावत् पृष्ठानुगामिना शशकेन व्याघ्रो गलं गृहीत्वा पातितः / चतुःपादैराक्रम्य व्याघ्रोपरि शशकः स्थितः / सर्वेऽपि लोकाः कौतुकं भयं च प्राप्ताः / शशकाक्रान्तो व्याघ्रो दीनश्वरं करोति / इतश्चैकेन नरेणागत्य प्रोक्तम-भो शशक ! अत्र प्रदेशे आचार्याः चतुर्ज्ञानशालिनस्तिष्ठन्ति / ते त्वां शब्दापयन्ति, एहि एहि शीघ्रम् / एतद् वचनं श्रुत्वा शशको गृहीतगलव्याघेण सह सूरीणां समीपे विनयं कृत्वा स्थितः / सर्वलोकैः सह भूपोऽपि तत्रागतः / अहो महदाश्चर्यं किं ज्ञायते ? एतत् किम् ? / अथ सूरयः शशकं कथयन्ति-भो शशक ! मुञ्च मुञ्च एनं वराकं व्याघ्रम्, त्वं दयापरोऽसि, ज्ञातजैनधर्मतत्त्वोऽसि, निजरूपं प्रकटीकुरु / यतः "क्षान्तितुल्यं तपो नास्ति, न सन्तोषात् परं सुखम् / नास्ति तृष्णापरो व्याधि-र्न च धर्मो दयासमः ॥१॥-अनु० मक्षिकाः क्षतमिच्छन्ति, क्षतमिच्छन्ति वायसाः / दुर्जनाः कलिमिच्छन्ति, सन्धिमिच्छन्ति साधवः // 2 // " अनु० ततः सूरिगिरं श्रुत्वा चलकुण्डलाभिरामः तेज:पुञ्जविजितकामः सुरो जातः / इतरोऽपि व्याघ्ररूपं त्यक्त्वा व्यन्तरः स्वाभाविकरूपो जातः / तदा भूपेन सूरयः पृष्टाः-एतन्निदानं कथयन्तु / ततो मधुरध्वनयः सूरयः प्रोचुः-भो राजन् ! पूर्वभवे 'अवन्ती'नगरे उम्भनामा वणिगभूत् मिथ्यात्वी / (स) अटिलनाम्नो जटिलस्य सेवां करोति / इतश्च तस्मिन्नेव नगरे कुम्भनामा व्यवहारी बभूव / तेन उम्भस्य जैनधर्मो दत्तः / उम्भः परमजैनः श्रावको बभूव / त्यक्ता अटिलजटिलभक्तिः / तेनाटिलस्तस्य मारणोपायं विचारयति / यतः "का प्रीतिः सह मार्जारैः ? का प्रीतिरवनीपतौ ? / गणिकाभिश्च का प्रीतिः ? का प्रीतिर्भिक्षुकैः सह ? // 1 // अनु० यथा वृष्टिः समुद्रेषु, भुक्तस्योपरि भोजनम् / एवं प्रीति: खलैः सार्ध-मुत्पन्नेऽर्थेऽवसीदति // 2 // अनु० मा गाः पिशुनविश्रम्भं, ममायं पूर्वसंस्तुतः / / चिरकालोपचीर्णोऽपि, दशत्येव भुजङ्गमः // 3 // अनु० द्विजिह्वमुद्वेगकरं, क्रूरमेकान्तदारुणम् / / खलस्याहेश्च वदन-मपकाराय केवलम् // 4 // " अनु० परं नावसरो लब्धः / अज्ञानकष्टं कृत्वा मरणं प्राप्य अटिलो जटिलो व्यन्तरो जातः / उम्भस्तु मृत्वा जैनधर्मप्रभावात् धर्मप्रियोऽयं समुत्पन्नः / कुम्भस्तु सौधर्मदेवलोकेऽयं देव उत्पन्नः / अतो हेतोः पूर्ववैरानुबन्धेनाटिलेन धर्मप्रियः एवं कदर्थितः / कुम्भदेवेन सर्वत्रास्य कूपाद्युपसर्गो निवारितः / व्यन्तरस्तु धर्मप्रियस्योपसर्ग( ईन् ) न मुञ्चति / व्याघ्ररूपं विधाय