________________ श्रीभावप्रभसूरिकृतम् .. हस्त्यारूढपिता निपीतमदिरा किं क्रीतलोकस्त्वया किं स्वस्त्राणसुता क्व लग्नहृदया पादोऽर्पितो यन्मयि ? ॥१॥"-१शार्दूल. अथोत्तरम् 'भूतग्रस्तमलीनशून्यहृदयो नित्यं पठस्यत्र किं किं ध्यानं प्रकरोषि निष्फलतरं ज्ञातो मदंह्विर्यतः / तत् त्यक्त्वेदमथ प्रयाहि जड ! रे लग्नो लयो नेश्वरे पश्येदृङ् मम मानसं २कमितरि ज्ञातो न यस्त्वं मया ॥१॥"-शार्दूल० इति यवनशास्त्रेऽपि // તે ધર્મનો ઇહાં દ્રવ્ય-દેષ્ટાન્ત ભાવ-દષ્ટાન્ત દેલાડઈ છઈ. 'बेनातट'नगरे धर्मप्रियनामा कश्चिद् वणिग्वरोऽस्ति / परं स च कीदृशः ? जैनधर्मरत उदारचित्तो गुणज्ञः सदा दानादिचतुर्विधं धर्मं करोति / एकदा केनचिद् व्यन्तरेण गलं गृहीत्वा धर्मप्रियः कूपमध्ये पातितः / अप्राप्तजलात् कूपविचालात् केनचिदुद्धृत्य कूपबहिर्मुक्तः / पुनः पातितः पुनर्बहिर्मुक्तः, एवं सप्त वारान् कूपे पातितोऽपि बहिरेव दृष्टः, ततः क्रुद्धेन समुद्रे प्रक्षिप्तः / तस्मिन् समये तत्र प्रवहणं आगतम् / यानपात्रनरैर्गृहीत्वा तीरं प्रापितः, ततो गृहमागतः, पुनः समुद्रे प्रक्षिप्तः प्रवहणनरैः स्थान प्रापितः, एवं सप्त वारान् समुद्रे क्षिप्तः कुशलेन गृहं गत एव दृष्टः, ततोऽतीव कुपितो धर्मप्रियस्य मारणोपायं व्यन्तराश्चिन्तयति / यतः "मृगमीनसञ्जनानां, तृण जलस्नेहविहितवृत्तीनाम् / लुब्धकधीवरपिशुना, निष्कारणवैरिणो जगति ॥१॥-आर्या "मांसं मृगाणां दशनं गजाना मत्यन्तरूपं युवतीजनानाम् / अर्थो नराणां फलितं द्रुमाणां गुणाधिका वैरकरा भवन्ति ॥२॥''-५उपजातिः इतश्च वसन्तमासे समागते तन्नगराधिपो राजा पौरजनैः सह वने क्रीडितुं गतः / धर्मप्रियोऽपि तत्र गत उचितक्रीडां करोति / अकस्मात् तत्रैको व्याघ्र आगतः / यावद् धर्मप्रियं 1. शार्दूलविक्रीडित-लक्षणम्-"सूर्याश्वैर्यदि मस्सजौ सततगाः शार्दूलविक्रीडितम् // " 2. कामुके / 3. 'जलसन्तोषविहित०' इति पाठः श्रीभर्तृहरिकृते नीतिशतके (श्लो० 50) / 4. विचार्यताम्-"मांसं मृगाणां दशनौ गजानां, मृगद्विषां चर्म फलं द्रुमाणाम् / स्त्रीणां सुरूपं च नृणां हिरण्य-मेते गुणा वैरकरा भवन्ति // 1 // " 5. उपजाति-लक्षणम्-"स्यादिन्द्रवज्रा यदि नौ जगौ ग, उपेन्द्रवज्रा जतजास्ततो गौ / अनन्तरोदीरितलक्ष्मभाजौ, पादौ यदीयावुपजातयस्ताः // 1 // "