________________ श्रीभावप्रभसूरिकृतम् किञ्चित्. गुरुभ्यो ज्ञातं मम बुद्धिस्थं तत् संस्तवनं यथाशक्ति किञ्चित् प्रकटीकरोमीत्यर्थः / अतो न दूषणं दातव्यं मयि विषये / यतः "1 २अन्तर्वाणिं मन्यमानः कवीनां पौरोभाग्यं युक्तिषूक्तासु दत्ते / सर्वानिन्द्येऽप्यङ्गके कामिनीना ४मीर्मामार्ग शोधते भर्भर 'बम्भ )राली ॥१॥"-६शालिनी तस्य इति तच्छब्दः पूर्वपरामर्शी / अन्यथा यत्तदोनित्यः सम्बन्धः स्यात् / अभिनम्यते इति अभिनम्यः, जिनानां-सामान्यकेवलिनां ईश्वरो जिनेश्वरः, अभिनम्यश्चासौ जिनेश्वरश्च इति कर्मधारयः तस्य / यतः "पूजार्हः स्वगुणैरेवा-ऽर्हत्पूजानिरतो हि यः / भक्त्या मुनींश्च नमति, नम्योऽपि रिपुपार्थिवैः ॥१॥"-अनु० इति शत्रुञ्जयमाहात्म्ये // नम्यः-अभिनम्य इति शिष्टप्रयोगः / दानं मुख्यं-प्रधानं यस्मिन् स तम् इति दानमुख्यम् / इति मूलार्थः // अथ प्रकारान्तरमर्थयोजनमाह हे भवभृत् ! अभिनम्य एवंविधो यो जिनः स ईश्वर:स्वामी यस्य स तस्य सम्बोधने हे अभिनम्यजिनेश्वर ! त्वं मानं-गर्वं-चित्तोन्नतिं स्य-घातय / षो धातुः अन्तकर्मणि 'दिवादेर्यः' (सारस्वते सू० 963) पञ्चमी हि रूपम् / त्वं इमं धर्म कुरु इति द्वितीयोऽन्वयः / शेषं तथैव इति / अथवा हे भवभृत् ! भवाब्धौ हे पोताय ! पोतस्य आयो-लाभो यस्य तस्य सम्बोधनमिति / त्वं इमं धर्मं कुरु / शेषं तथैव / इति प्रथमोऽन्वयः // ___एष अहं तस्य-धर्मस्य संस्तवनं करिष्ये / किं कृत्वा ? जिनेश्वरस्य मानं-ज्ञानं अभिनम्य-नत्वा / यदुक्तं जैनतर्कभाषायाम्-"स्वपरव्यवसायिज्ञानं प्रमाणम्" // इति द्वितीयोऽन्वयः // अथ सम्यक्त्वलक्षणमाह "सद्देवे सुगुरौ शुद्ध-धर्मे या वासना स्थिरा / सम्यक्त्वं तदिदं सम्यक्, मिथ्यात्वं तद्व्यतिक्रमात् ॥१॥-अनु० 1. विचार्यतां पद्यपदप्रारम्भसादृश्यम् "अन्तर्वाणिं मन्यमानः खलोऽयं पौरोभाग्यं सूक्तिमुक्तिसु धत्ते / सर्वानन्दिन्यङ्गके कामिनीनामीम मार्गत्येष वै बम्भरालिः // 1 // " 2. पण्डितम् / 3. दोषदृष्टित्वम् / 4. व्रणमार्गम् / 5. मक्षिका / 6. शालिनी-लक्षणम्-"मात्तौ गौ चेच्छालिनी वेदलोकैः // "