________________ श्रीजैनधर्मवरस्तोत्रम् व्याख्या-आचार्य इति कथयति तदाह-हे भवभृत् ! हे भव्य ! त्वं अभिनम्यजिनेश्वरस्य इमं धर्मं कुरु इत्यन्वयः / कथंभूतं धर्मम् ? दानमुख्यं-दानादिकम् / पुनः कथंभूतं धर्मम् ? चतुर्विधम्-चतुःप्रकारम्, दान-शील-तपो-भावरूपमित्यर्थः / पुनः कथंभूतं धर्मम् ? कल्याणमन्दिरं-श्रेयसां गृहम् / अनेन विशेषणेन मङ्गलशब्दोपन्यासः स्तोत्रस्यादौ कृतः शिष्टाचारत्वात् / पुनः क० धर्मम् ? सम्यक्त्वभूषिततम-सम्यक्त्वेनातिशोभितम् / पुनः क० धर्मम् ? भवाब्धौ-संसारसमुद्रे पोतायमानं-यानपात्रोपमानम् / पुनः क० धर्मम् ? अनश्वरसौख्यहेतुं-अविनाशिमोक्षसुखस्य कारणम् / पुनः क० धर्मम् ? 'हिंसादिदोषरहितं' प्राणातिपात-मृषावादा-ऽदत्तादान-मैथुनपरिग्रहादिभिः सर्वाविरतिदेशाविरतिदोषैः रहितं-त्यक्तम् / पुनः क० धर्मम् ? शमाद्यैः-शान्तदान्तादिगुणैः सहितंयुक्तम् / पुनः क० धर्मम् ? 'घातिक्षयात्' ज्ञानावरणीय-दर्शनावरणीय-मोहनीया-ऽन्तरायाणां चतुर्णां घातिकर्मणां क्षयाद् उत्पन्नवरकेवलज्ञानदर्शनैः चतुर्विधदेवरचितसमवसरणस्थितैः अष्टादशदोषरहितैः चतुस्त्रिंशदतिशयविराजमानैः अष्टमहाप्रातिहार्यशोभितैः श्रीतीर्थंकरैः पञ्चत्रिंशद्गुणयुक्तया वाण्या निगदितं-कथितम् / अत्र घातिक्षयादिति पदेन अन्यशासनछद्मस्थकज्ञानं निरस्तम् / यतः "देवागमनभोयान-चामरादिविभूतयः / / मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् // 1 // " अनु० इति सामन्तभद्रा अष्टसाहस्त्र्याम् / पुनः "यथास्थितं वस्तु दिशन्नधीश ! न तादृशं कौशलमाश्रितोऽसि / तुरङ्गशृङ्गाण्युपपादयभ्यो नमः परेभ्यो नयपण्तितेभ्यः // 1 // " १उपेन्द्रवज्रा . इति श्रीहेमचन्द्रविरचितायामयोगव्यवच्छेदद्वात्रिंशिकायां ( श्लो० 5) / पुनः "पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु / युक्तिमद् वचनं यस्य, तस्य कार्यः परिग्रहः ॥१॥"-अनु० इति हरिभद्राचार्याः पुनः क० धर्मम् ? महेन्द्रैः-सुरनरनायकैः महितं-पूजितम् / पुनः क० धर्मम् ? 'स्वर्गेति' स्वर्गे-देवालये अपवर्गे-मुक्तौ फलं जातं अस्य इति फलितम्, स्वर्गमोक्षप्राप्तिरूपजातफलम् / पुनः क० धर्मम् ? विवेकैः-अयं पुद्गलधर्मः पृथक्, अयं शुद्धचिदानन्दजीवधर्म इत्यादि भेदज्ञानैर्हेयोपादेयरूपैः अपि कलितं-ज्ञातं सहितं इति / किलेति सत्यम् / एष अहं-भावप्रभनामाचार्यः तस्य-धर्मस्य संस्तवनं-स्तुतिं करिष्ये / यत् अचम्द्या 1. उपेन्द्रवज्रा-लक्षणम्-"उपेन्द्रवज्रा जतजास्ततो गौ।"