________________ श्रीभावप्रभसूरिकृतम् कालोऽयं 'जलदागमस्तदपि यः कामं जिगायादरात् तं वन्दे युवतिप्रबोधकुशलं श्रीस्थूलभद्रं मुनिम् // 4 // शार्दूल० 22 काम ! वामनयना तव मुख्यमस्त्र वीरा वसन्त-पिक-पञ्चम-चन्द्रमुख्याः / त्वत्सेवका हरि-विरञ्चि-महेश्वराद्या हा हा हताश ! मुनिनाऽपि कथं हतस्त्वम् ? // 5 // वसन्त० ३श्रीनन्दिषेण-रथनेमिमुनीश्वरा-ऽऽर्द्र बुद्ध्या त्वया मदन ! रे मुनिरेष दृष्टः / ज्ञातं न नेमि-मुनिजम्बु-सुदर्शनानां तुर्यो भविष्यति निहत्य रणाङ्गणे माम् // 6 // वसन्त० इति लेशमात्रस्थूलभद्रकथानकम् ॥तथा अभयाह्वया राज्या भोगार्थ याचितोऽचलित उपसर्गितो राज्ञा शूलिकायामारोपितो रत्नसिंहासनं जातं सुदर्शनश्रेष्ठिनः / इति पञ्चत्रिंशत्तमवृत्तार्थः // 35 // सूत्रम् ब्राहयादिका विमलशीलविभूषणाढ्याः - सत्यो हि सन्ति बहवो भवितार एव / तासां तु नामजपनेन जिनेश ! पूतो . जातो निकेतनमहं मथिताश ! यानाम् // 36 // व्याख्या-ब्राह्मादिका इत्यादि / हि-निश्चितं हे जिनेश ! ब्राहयादिकाः सत्यः बहवः सन्ति / पुनः सत्यः बहवो भवितार:-भविष्यन्त्येव / कथंभूताः सत्यः ? विमलशीलमेव भूषणं तेन आढ्या:-संयुक्ताः / हे जिनेश ! हे 'मथिताश !' मथिता-हता आशा-अभिलाषो येन, हे निरभिलाष ! / तुः अवधारणे / अहं भरतः तासां सतीनां नामजपनेन पूतः-पवित्रो जातः / कथंभूतोऽहं ? यानां-लक्ष्मीनां निकेतनं गृहम् / “लक्ष्मी: पद्मा रमा या सा" इत्यादि हैमः (का० 2, श्लो० 140) / यतः ( श्रीधर्मसूरिकृते मङ्गलस्तोत्रे श्लो० 13) "ब्राह्मी चन्दनबालिका भगवती राजीमती. द्रौपदी कौशल्या सुमृगावती च सुलसा सीता सुभद्रा शिवा / कुन्ती शीलवती नलस्य दयिता चूला प्रभावत्यपि पद्मावत्यपि सुन्दरी दिनमुखे कुर्वन्तु वो मङ्गलम् // 1 // 1. 'जलदाविलस्तदपि' इति पाठः / श्रीहीरालाल हंसराजेत्यैभिर्मुद्रिते स्थूलभद्रचरित्रे / 2-3. स्थूलभद्रचरित्रे (दे०ला०पु०जै०) 558-559 तमे पद्ये /