________________ 108 श्रीजैनधर्मवरस्तोत्रम् तस्या एव गृहे चित्रशालायां षड्रससरसभोजनकः सद्ब्रह्मचर्यधारकः कामविकारनिवारकः स्थितवान् मुनिः सः / एतन्निशम्य कश्चिद् विप्रः प्राह "विश्वामित्र-पराशरप्रभृतयो 'ये चाम्बुपत्राशना__स्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः / २आहारं सघृतं पयोदधियुतं ३भुञ्जन्ति ये मानवा स्तेषामिन्द्रियनिग्रहः कथमहो दम्भः समालोक्यताम् // 1 // '' शार्दूल० सूरिराह "सिंहो बली द्विरदशूकरमांसभोजी संवत्सरेण रतिमेति किलैकवारम् / पारावत: खरशिलाकणभोजनोऽपि कामी भवत्यनुदिनं वद कोऽत्र हेतुः ? // 1 // वसन्त० इति / स स्थूलभद्रोऽखण्डशीललीलः तां कोशां प्रबोध्य गुरुसमीपमागतः सन् गुरुभिर्दुष्करकारक इति सङ्घसमक्षं प्रोचे / 'तद्वचसः पूर्वं समागताः सिंहगुहा-बिलकूपकाष्ठस्थायिनो मुनयस्त्रयः / तेषु सिंहगुहावासी मुनिर्मत्सरेण गुरुणा निवार्यमाणोऽपि द्वितीयचतुर्मास्यां कोशागृहे गतः / दृष्ट्वा च तां दिव्यरूपां चलचित्ततया 'नेपाल'देशानायितरत्नकम्बलं क्षाले क्षिप्त्वा प्रतिबोधितः सन् आगत उवाच-युक्तं दुष्करदुष्करकारक इति / गुरुभिरुक्तम्यत: "स्मर सिंहगुहागेहं, दृष्टिष्टिविषाहिभूः / / चित्रशाला कूपपट्टः, कोशायास्त्रिष्वसौ स्थितः // 1 // अनु० ६गिरौ गुहायां विजने वनान्तरे, वासं श्रयन्तो वशिनः सहस्रशः / हयेऽतिरम्ये युवतीजनान्तिके, वशी स एकः शकडालनन्दनः // 2 // इन्द्रवंशा ध्योऽग्नौ प्रविष्टोऽपि हि नैव दग्ध-श्छिन्नो न खड्गाग्रग( कृ? )तप्रचारः / कृष्णाहिरन्धेऽप्युषितो न दष्टो, नाक्तोऽञ्जनागारनिवास्यहो यः // 3 // इन्द्रवज्रा “वेश्या रागवती सदा तदनुगा षड्भी रसैर्भोजनं शुभ्रं धाम मनोहरं वपुरहो नव्यो वयःसङ्गमः / 1. 'वाताम्बु०', 2. 'शाल्यन्नं स०', 3. 'ये भुञ्जते मानवा'-, 4. 'ग्रहो यदि भवेद् विन्ध्यस्तरेत् सागरे' इति पाठभिन्नता सुभाषित० ( पृ० 264) / 5. 'तद्वचसा च पूर्व' इति ख-पाठः / ६-८श्रीजयानन्दसूरिकृते स्थूलभद्रचरित्रे 550 तमादि ५५२तमपर्यन्तानि पद्यानि (दे०ला०जै०)।