________________ 106 श्रीजैनधर्मवरस्तोत्रम् १"चैत्रमास्यां पूर्णमास्यां, मासान्ते केवलं ततः / / प्रथमं पुण्डरीकस्य, श्रमणानां ततोऽभवत् // 1 // " अनु० शुक्लध्यानाधिरोहेण, क्षीणेष्वखिलकर्मसु / प्रापत् तपस्विकोटीभिः, पुण्डरीकः परं पदम् // 2 // अनु० स्वर्गादागत्य गीर्वाणा, निर्वाणाप्तिमहोत्सवम् / क्षणात् तेषां महर्षीणां, मरुदेव्या इव व्यधुः // 3 // अनु० तीर्थकृत् प्रथमः स्वामी, यथा श्रीवृषभस्तथा / तदानीं प्रथमं तीर्थं, जज्ञे 'शत्रुञ्जयो' गिरिः // 4. अनु० सिद्धो महर्षिरेकोऽपि, तीर्थतां स्थानमानयेत् / / महर्षिकोट्यो यत्र, किं पुनः सिद्धिमव्रजन् ? // 5 // अनु०. 'शत्रुञ्जयो'ऽद्रिषु सिद्धि-क्षेत्रत्वान्मुकुटं स्फुटम् / २नामारूपमयं चक्रवर्ती चैत्यमकारयत् // 6 // अनु० प्रभुबिम्बं पुण्डरीक-युक्तं कृतं तदन्तरा / आत्मानमिव विश्वान्त-रात्मानं च चि( स्थि)रं व्यधात् // 7 // " अनु० इति पद्मानन्दमहाकाव्ये ( स० 18, श्लो० 173-179) वेणिकृपाणनामाऽमरचन्द्रः / इति भरतचक्री सङ्घपतितिलकधारकः चैत्यकारकः सङ्घवात्सल्यनिर्मापकः पुण्यवान् कथितः। इत्येवंविधोऽपि यो भवति स मुक्तिगामी भवतीति स्थितम् / इति चतुस्त्रिंशत्तमवृत्तार्थः // 34 // अथ शीलमाश्रित्याहसूत्रम् शीलं कलङ्कतिमिरावलिहेलिकेलि विस्तीर्णविश्ववलये कृतकीर्तिखेलम् / मर्यो दधाति हदि यः प्रवरस्य तस्य किं वा विपद्विषधरी सविधं समेति ? // 35 // व्याख्या—(शीलमिति) / यो मो-मनुष्यः हृदि-हृदये शीलं-मैथुनपरिहाररूपं सद्ब्रह्मचर्यं दधाति-धरति / किंविशिष्टं शीलम् ? 'कलङ्कतिमिरावलिहेलिकेलि' कलङ्का एव तिमिराणि-अन्धकाराणि तेषां आवलिः-श्रेणिः तस्यां हेले:-सूर्यस्य केलिरिव केलियस्य तत्, तद्विनाशकत्वात् / पुनः किंविशिष्टम् ? विस्तीर्णे-विपुले विश्ववलये-भुवनमण्डले 'कृतकीर्तिखेलं' कृता कीर्त्याः खेला-क्रीडा येन तत् / वा पक्षान्तरे / विपद् एव विषधरी-सर्पिणी तस्य प्रवरस्य पुरुषस्य सविधं-समीपं किं समेति-आगच्छति ? / अपि तु न आगच्छति / 1. 'चैत्रे मासि पूर्णि०', 2. 'नानारत्नमयम्', 3. 'च स्थिरं' इति पाठान्तराणि पद्मा० / .