________________ श्रीभावप्रभसूरिकृतम् 101 सेनाया अपत्यं सैनेयः-सम्भवो जिनः, साधुः-सत्पुरुषः संवेगपक्षी "साधौ सभ्यार्यसञ्जनाः" इति हैमः (का० 3, श्लो० 43), वरसङ्घ-शुभचतुर्विधसङ्घः सर्वेभ्यो हितः सार्वो-जिनः तस्य सद्म-चैत्यं, सैद्धान्तिका:-गीतार्थ इति / तेन-सुपञ्चसकारवर्गेणैव तस्य प्राणिनो भवकृपीटनिधौ-भवजलधौ कृत्यं-कार्यं निरस्तं-त्यक्तम् / कथंभूते भवकृपीटनिधौ ? दुस्तरवारि / वार्शब्दोऽत्र रेफान्तः / दुस्तराणि वारि यस्मिन् स इति / कृपीटं-जलम् / . "जले दिव्यमिरा सेव्यं, कृपीटं घृतमङ्करः / विषं पिप्पलपाताल-मलिनानि च कम्बलम् // " अनु० इत्यादि हैमशेषकोशे (का० 4, लो० 9) अर्थात् जैनशासनभक्तिकारकः / कीदृशः ? “१पावयणी धम्मकही वाई निमित्तिओ तवस्सी उ / विज्जा सिद्धो य कई अद्वैव पभावगा भणिआ // 1 // "2 पालित्तो वृद्धवादी कविकुलतिलकः ५सिद्धसेनो दिवाकृद् विद्यासिद्धस्तथार्यः ६खपटगुरु रुमास्वातिसन्म ल्लवादी / सरि: श्री हारिभद्रः स्वपरसमयविद् १°बप्पभट्ट ट्टिः) प्रसिद्धः ... . ११सिद्धर्षिर्देवसूरिः १२कुमरनृपनतो १३हेमसूरिस्तु जीयात् // 1 // " स्रग्धरा इति जैनधर्मप्रभावकाः / अत्र जैनधर्मोपरि कथा-काञ्चनपुरे' नगरे कुरुचन्द्रो राजा मिथ्यात्वी / रोहको मन्त्री जैनः भूपं प्राह-राजन् ! धर्मं परीक्ष्य गृह्यते, नान्यथा "यथा चतुभिः कनकं परीक्ष्यते, निघर्षण-च्छेदन-ताप-ताडनैः / तथा चतुर्भिः पुरुषः परीक्ष्यते, श्रुतेन शीलेन कुलेन कर्मणा // वंस्थविलम् गतानुगतिको लोको, न लोकः पारमार्थिकः / वालुकालिङ्गमात्रेण, गतं मे ताम्रभाजनम् // " अनु० 1. छाया-प्रावचनी धर्मकथी वादी निमित्तकः तपस्वी च / विद्या सिद्धश्च कविः अष्टैव प्रभावका भणिताः // 2. वर्तमानश्रुतार्थपारगामी 1, नन्दीषेणवद् धर्मकथाकथकः 2, मल्लवादिवद् राजद्वारे जयकमलाभाग् 3, भद्रबाहुवत् निमित्तकथकः 4, महातपोगुणधारकः 5, वज्रस्वामिवत् 6, कालिकाचार्यवत् सिद्धाञ्जनधारकः 7, सिद्धसेनवत् सरसमधुसुधारसभरकाव्यकृत् धर्मार्थं एतेऽष्टौ जिनधर्मप्रभावका इति . 'पावयणी गाथार्थः / ____3. पादलिप्तः सिद्धौषधभृत् / 4 मुशलफुल्लकारको वृद्धवादी चतुरशीतिहुंवडाकथकः / 5 सिद्धसेनः कल्याणमन्दिरादिकृत् / 6 खपुटाचार्यो बौद्धप्रतिबिम्बचालकः / 7 प्रशमरतिप्रमुखपञ्चशतप्रकरणप्रणेता उमास्वातिवाचकः / 8 मल्लवादी नयचक्रवालकारकः / 9 चतुश्चत्वारिंशदधिकचतुर्दशशतग्रन्थकर्ता हरिभद्रसूरिः / 10 आमराजादिप्रतिबोधको बप्पभट्टिसूरिः / 11 एकविंशति वारान् यो बौद्धसमीपे गतो यद्बोधनिमित्तं श्रीहरिभद्रसूरिणा ललितविस्तरानामग्रन्थो ग्रथितः स उपमितिभवप्रपञ्चाकथाकार: सिद्धर्षिः / 12 कुमुदचन्द्रदिक्पटजित् देवसूरिः / 13 हेमसूरिः कुमारपालभूपालप्रतिबोधकः /