________________ 100 श्रीजैनधर्मवरस्तोत्रम् ___ इत्युदित्वा सा वीरेण सह परिणायिता / दिनान्तरे कृष्णेनोक्तम्-आज्ञाकारिणी तां कुरु / तेन गृहं गत्वा प्रोक्ता सा-पर्जनीकं( ? ) कुरु / रुष्टा समेत्य कृष्णाय निवेदितम्स्वामिनी कुरु / वीरादेशं लात्वा नेम्यन्तिके दीक्षापितेति / अन्यदाऽष्टादशसहस्रसाधूनां द्वादशावर्तवन्दनेन क्षायिकसम्यक्त्वं तीर्थङ्करनामगोत्रकर्म (च) बद्धं कृष्णेन खण्डितं नरकचतुष्ककर्मदलवितानम् / यतः "अनाद्यनन्तसंसार-कर्मधर्मश्रमापहम् / वन्दनं चन्दनमिव, श्रेयःसौरभसङ्कलम् // 1 // अनु० ददद् हरिर्वन्दनकानि भक्त्या, मुनीश्वराणां चरणाम्बुजेषु / अवाप तीर्थङ्करगोत्रकर्म, श्वभ्रादिकष्टानि तनूचकार // 2 // उप० १तित्थयरत्तं संमत्त खाइयं सत्तमीय तइआए / एयं वंदणएणं बद्धं च दसारसीहेण // 3 // वन्दनं हृदयभावसम्भवं, माधवस्य विदधे फलत्रयम् / द्रव्यतः कृतमिदं तु केवलं, वीरकस्य विपुलक्लमं फलम् // 4 // रथोद्धता पापतापनिचयस्य चन्दनं, दीयतां मुनिजनस्य वन्दनम् / पूर्वसञ्चितकुकर्मखण्डनं, वीरशासनजनौघमण्डनम् // 5 // रथोद्धता विनयोऽहङ्कृतित्यागो, जिनाज्ञा गुरुपूजनम् / श्रुतस्याराधना मोक्षः, षड् गुणा गुरुवन्दने // 6 // अनु० नीचैर्गोत्रमविनयो-ऽमानः शासनहीलनम् / अबोधिर्भववृद्धिश्च, षड् दोषा गुर्ववन्दने // 7 // अनु० एकादशस्तीर्थङ्करो भावीति इत्यादि / इति एकत्रिंशत्तमवृत्तार्थः // 31 // सूत्रम् सैनेय-साधु-वरसङ्घक-सार्वसद्म सैद्धान्तिका इति सुपञ्चसकारवर्गः / येनाहतो भवकृपीटनिधौ निरस्तं तेनैव तस्य जिन ! दुस्तरवारि कृत्यम् // 32 // व्याख्या-सैनेयेति / हे जिन ! येन प्राणिना इति-एष सुपञ्चसकारवर्ग: आदृतःअङ्गीकृतः, सेवित इत्यर्थः / सु-शोभमानः पञ्चानां सकाराणां वर्ग इति तानाह—'सैनेयः' 1. छाया-तीर्थङ्करत्वं सम्यक्त्वं क्षायिकं सप्तम्याः तृतीयायाम् / एतद् वन्दनकेन बद्धं च दशार्हसिंहेन //