________________ श्रीभावप्रभसूरिकृतम् मृत्वा तस्मिन्नेव गुणप्रियगृहे शुनीपुत्रो जातः / नित्यममेध्यमश्नाति / तत्र ज्ञानशाली सूरिराययौ / तं मण्डलं दृष्ट्वा जगौ-भो भषण ! त्वं स्मरसि सुन्दरपूर्वभवम् ? / इति श्रुत्वा जातजातिस्मृतिः पूर्वकर्म निन्द्यमानः सूरिपादौ श्रितः / सूरिणा सम्यक् प्रकारेण परमेष्ठिपूर्वकं धर्मध्यानं ग्राहितः / पाक्षिकमनशनं कृत्वा शुभध्यानेन मृत्वा पुनर्गुणप्रिस्यैव पुत्रो जातः / धर्ममतिरिति नाम दत्तम् / प्राप्तयौवनो मुनिसङ्गतो ज्ञाततत्त्वो लिखापितसिद्धान्तपुस्तकः / यतः "लेखयन्ति नरा धन्या, ये जैनागमपुस्तकान् / ते सर्वे वाङ्मयं ज्ञात्वा, सिद्धि यान्ति न संशयः // 1 // " अनु० ये लेखयन्ति जिनशासनपुस्तकानि ___ व्याख्यानयन्ति च पठन्ति च पाठयन्ति / शृण्वन्ति रक्षणविधौ च समाद्रियन्ते ते मर्त्य-देव-शिव-शर्म नरा लभन्ते // 2 // वसन्त० . न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभावम् / * नैवान्धतां बुद्धिविहीनतां च, ये लखयन्त्यागमपुस्तकानि // 3 // उप० बाल-स्त्री-मन्द-मूर्खाणां, नृणां चारित्रकाङ्क्षिणाम् / अनुग्रहार्थं तत्त्वज्ञैः, सिद्धान्तः प्राकृतः कृतः // 4 // " अनु० इति / तेन कृतज्ञानभक्तिः सन्मानितसाधुसङ्घः श्रावकव्रतानि प्रपाल्य सम्यगतिचारान् सम्भाल्य मृत्वा 'अच्युते' देवोऽजनि 'महाविदेहे' प्राप्तनुभवो मोक्षं गमिष्यतीति ज्ञानोपरि कथानकम् / इति त्रिंशत्तमवृत्तार्थः // 30 // सूत्रम् दानं दया दमन-दर्शन-देवसेवा ___दोषापहार इति षट् प्रवरा दकाराः / तैः सेवितैर्दुरितराक्षस आत्तलोको ग्रस्तस्त्वमीभिरयमेव परं दुरात्मा // 31 // व्याख्या-दानमिति / इह लोके हे प्रभो ! षट् दकाराः प्रवरा वर्तन्ते / ते के तानाहदानं दया दमनं-पञ्चेन्द्रियविषयवर्जनं दर्शनं-सम्यक्त्वं देवसेवा-जिनपूजा / दमनादिपदानां 'द्वन्द्वः' / दोषापहार:-कुलिङ्गिसंसर्गादि दोषत्यजनं इति / तुः अवधारणे / सेवितैः तैः