________________ श्रीजैनधर्मवरस्तोत्रम् "धन्या भारतवर्षसम्भवजना यद् यत्र काले कलौ नोतीर्थेश्वरकेवले निरवधौ नश्यन्मनःपर्यये / त्रुट्यत्सूत्रविशेषसं परिनदद्दौर्गत्यदुःखास्पदे श्रीजैनेन्द्रवचोऽनुरागवशतः कुर्वन्ति धर्मोद्यमम् // 1 // " शार्दूल० स्यात्कारपदरहितास्तु सर्वेऽपि मिथ्यादृष्टयः / अतः षट् दर्शनान्याह-जैनं स्याद्वादी आर्हतः 1 इति, बौद्धं शून्यवादी सौगतः 2 इति, शैवशासनं नैयायिकः अक्षपादो योगः 3 इति, साङ्ख्यं कापिलः 4, इति, वैशेषिकं कणाद औलूक्यः 5 इति, जैमिनीयं भाट्टदर्शनं 6 इति / नैयायिक वैशेषिकयोरभेदं केचिन्मन्यन्ते तदा पञ्चैवास्तिकवादिनः / ततः षष्ठं नास्तिकमतं बार्हस्पत्यः नास्तिकः चार्वाकः लौकायतिकः इति षड्दर्शनानां एकैकस्य नामान्तराणि ज्ञेयानि३ / अत्र दृष्टान्तः 'मथुरा'यां पुरि गुणप्रियनामा व्यवहारी मनीनाम्नी प्रिया / तयोः पुत्र सुन्दराह्वो वर्तते / स च दुर्विनीतो दुष्टाशयो नास्तिकमतिर्धर्मविमुखोऽस्ति / यतः (षड्दर्शनसमुच्चये श्लो० 82) "पिब खाद च चारुलोचने !, यदतीतं वरगात्रि ! तन्न ते / न हि भीरु गतं निवर्तते, समुदयमात्रमिदं कलेवरम् // 1 // " वैतालीयम् गुणप्रियस्तु जैनधर्मरक्तः स्वगृहाने धर्मशालायां स्थितान् साधून सेवते स्म / सुन्दरस्तु तेषां विरुद्धवचनं जल्पति / यदा साधव आगमघोषं कुर्वन्ति कारयन्ति तदा स वक्ति-एते वायसा: क्रां क्रां कुर्वन्ति, श्वाना इव हाऊ हाऊ कुर्वन्ति / एकदा साधुषु बहिर्भूमिगतेषु पुस्तकमादा यानेनावकरे क्षिप्तम् / आयाता मुनयः, पुस्तकं न दृष्टम् / ज्ञातेन जनकेन हक्कितोऽसौ तत आनीतं पुस्तकम् / कथितं च किमेतस्य ज्ञानस्याशातनां करोषि ? महापापाय भविष्यति / यतः "ज्ञानस्य ज्ञानिनां चैव, निन्दा-प्रद्वेष-मत्सरैः / उपघातैश्च विनैश्च, ज्ञाननं कर्म बध्यते // 1 // " अनु० तदा दुर्विनीत उवाच-किं कागले कञ्जले वा ज्ञानं प्रविष्टमस्ति ? / एवं देशनान)ऽसौ विद्युत्पातात् मृतः काकोऽभवत् / नित्यं विष्ठामत्ति / एकदा श्येनेन गलं गृहीत्वा निपातितो 1. "दि भवद्दौ०' इति ख-पाठः / 2. सप्तापि नयाः / 3. स्याद्वादरत्नाकरावतारिकायां भट्ट-प्रभाकर-कणभक्षा-ऽक्षपाद-कपिला इत्यस्यार्थः / भट्टोजैमिनि: निष्कर्ममीमांसाकृत् 1, प्रभाकर:-सकर्ममीमांसाकृत् 2, दुर्गसिंहापरनामा वैशेषिकाचार्यः 3, अक्षपादः नैयायिकः 4, कपिलसूनुः साङ्ख्य इति / 4. 'य तेना' इति ख-पाठः /