________________ 98 श्रीजैनधर्मवरस्तोत्रम् अमीभिः प्रवरैः षड्भिर्दकारैः परं-केवलं अयमेव 'दुरितराक्षसो ग्रस्त:-भक्षितः / कथंभूतो दुरितराक्षस: ? आत्तः-गृहीतो भक्षितो लोको येन स इति / पुनः कथं० ? दुरात्मा-दुष्टात्मा। अत्र दृष्टान्तः दाने श्रीऋषभजिनजीवधनसार्थवाहवत् / यतः (पद्मानन्दमहाकाव्ये)"धनस्य नव्यैः २सुरभिस्वभावैः, ३क्रीडागतक्रोडमृगेन्दुगौरैः / .. पतद्ग्रहः स्त्यानघृतैरशोभि-ब्रह्माण्डभाण्डं "नु भृतं यशोभिः // 1 // " उप० सवैया तेइसा २३५सो धन सारथवाह धनो जगि साधुकौं आपनै थान बुलाये थीनेसे घृतके षो( घ ? )ट अबोटसे मोटेसे पात भरे विहराए / मानसैं दानसैं निर्मल भावसैं निर्मल सुंदर सम्यक्त्व पाये दान बडो भावप्रभ कहै जगि दान तित्थंकरगोत बंधाए // 1 // इति / दयायां हरिबलमात्स्यिकादिवत् इति / दमने ___६आंषि म मींचसी मिंच मन नयण निहाली जोइ / अप्पो अप्पा षींचीइ तो अवर न दूजो कोई // 1 // " / वेश्यया दत्तशिरष्ठंबकः (?) कुटिलजटिलः प्रतिबोधित इति / दर्शने कृष्णादिवत् / तथाहि-द्वारवत्यां' संयमग्रहणाक्षमः कृष्णवासुदेवोऽस्ति / यः कश्चिद् दीक्षां लाति तस्य दीक्षामहोत्सवं करोमीति नियमवान् कृष्णः स्वपुत्री निजोत्सङ्गे संस्थाप्य पृच्छति-वत्से ! त्वं स्वामिनी दासी वा भविष्यसि ? सा वक्ति-स्वामिनीति / तदा नेमिजिनान्तके महोत्सवेन स तस्या दीक्षां दापयति / एवं क्रियमाणाय कृष्णाय ज्ञातवार्तयाऽन्यया पुत्र्या निवेदितं यतोऽहं दासी भविष्यामीति / तेन चिन्तितम्-अन्याः सर्वा एवं मा भुवन् / ततस्तेन वीरो नाम कुविन्दो 1. पापरक्षः / 2. सुरभिः-सुगन्धः स्वभावो येषां तैः / 3 क्रीडार्थं गत उत्सङ्गे मृगो यस्य एवंविधो य इन्दुः-चन्द्रः तद्वद् गौरैः-शुभैः / 4. नुः वितर्के / 5. तात्पर्यम् स धनसार्थवाहो धन्यो जगति येन साधवः स्वस्थाने आमन्त्रिताः स्त्यानघृतघटैरुच्छिष्टतारहितैः बृहन्ति पात्राणि भृत्वा प्रतिलाभयाञ्चक्रे / मानेन दानेन निर्मलभावेन निर्मलं सुन्दरं सम्यक्त्वं प्रापत् दानं महत् (इति) भावप्रभः कथयति (यतः) जगति दानं तीर्थङ्करगोत्रं बन्धयति // 6. तात्पर्यम् अक्षिणी मा निमीलय निमीलय मनः नयनाभ्यां निभालय / ( यदि) आत्मा आत्मानं आकर्षयति तर्हि अपरोऽन्यो न कोऽपि // 7. कुं विन्दतीति कुविन्दः-तन्तुवायः /