________________ श्रीजैनधर्मवरस्तोत्रम् तत्त्वानि तीर्थकर-तीर्थ-तपोधनाश्च तथ्यं च तात्त्विकतपः खलु षट्तकारी / तस्यां रतो भवति मक्षु नरो हि हित्वा चित्रं विभो ! यदसिकर्म विपाकशून्यः // 29 // व्याख्या (तत्त्वानीति)। खलु-निश्चितं एषा षट्तकारी वर्तते / षण्णां तकाराणां समाहारः षट्तकारी / के ते तकाराः ? तानाह-तत्त्वानि-जीवाजीवादिकानि नव, तीर्थङ्करा:-चतुर्विंशतिर्जिनाः पञ्चदशकर्मभूमिसंस्थिता अपि, तीर्थानि-शत्रुञ्जयः 1 रैवताचल: 2 समेतशिखरी 3 अष्टापदः 4 तीर्थङ्ककल्याणकस्थानानि महामुनीनामनशनादिकस्थानानि यथाऽनिकासुताचार्यसिद्धिगमनं स्थानं प्रयाग इति तीर्थं 'जातमित्यादि तीर्थानि शाश्वतानि अशाश्वतानि, तपोधना:-मुनयः, तथ्यं-सत्यवाक्, तात्त्विकतपः-आकाङ्क्षादिरहितं निर्मलं तपः / चकारौ समुच्चयार्थौ / हे विभो ! हे युगादिदेव ! हि-निश्चितं यतःयस्मात् कारणात् नर:-भव्यपुरुषः तस्यां षट्तकारिकायां रत-आसक्तः सन् मङ्घ-शीघ्रं 'विपाकशून्यो' भवति विपाकेन-ज्ञानावरणाद्यष्टकर्मणां फलोदयेन शून्यः-रहित इत्यर्थः / किं कृत्वा ? असिकर्म हित्वा-त्यक्त्वा असिवत् च तत् कर्म च असिकर्म तीक्ष्णत्वात् भेदच्छेदकारित्वात् खड्गोपमानं युक्तं, दुस्सहं कर्म / कथं० कर्म ? चित्रं-विचित्रं नानाप्रकारमिति // प्रवचनसारोद्धारे (द्वा० 41, गा० 451-452) तु यथा"अन्नाण 1 कोह 2 मय 3 माण 4 लोह 5 माया 6 ई 7 अरई 8 य / निद्दा 9 सोय 10 अलियवयण 11 चोरिआ 12 मच्छर 13 भया 14 य // 451 // पाणिवह 15 पेम 16 कीलापसंग 17 हासा 18 य जस्स इय दोसा / अट्ठारस्स वि पणट्ठा नमामि देवाहिदेवं तं // 452 // " [अज्ञानं क्रोध: मदः मानः लोभ: माया रतिः विरतिश्च / निद्रा शोकः अलीकवचनं चोरिका मत्सर: भयं च // प्राणिवधः प्रेम क्रीडाप्रसङ्गः हासः च यस्य इमे दोषाः / अष्टादृशापि प्रणष्टा नमामि देवाधिदेवं तम् // ] 1. श्रीवज्रस्वामिनोऽनशनस्थाने पर्वतो 'स्थावर्त'नाम तीर्थं जज्ञे, यतः श्रीहेमाचार्याः परिशिष्टपर्वणि (स० 13, श्लो० 177-178) प्राहुः "शक्रः प्रदक्षिणीचक्रे, तं गिरिं सरथस्तदा / वृक्षादीन् नमयन्नुच्चैः, स्वदेहमिव भक्तितः // 1 // विनम्रा एव तेऽद्यापि, विद्यन्ते तत्र पर्वते / ततस्तस्याभिधा जज्ञे, 'रथावर्त' इति क्षितौ // 2 // "