________________ श्रीभावप्रभसूरिकृतम् ___अत्र- तथ्योपरि दृष्टान्त:-'कस्मिंश्चिद् ग्रामे खी(क्षी )रकद्मबोपाध्यायो निजपुत्रं पर्वताख्यं तथा वसुनामानं राजपुत्रं तथा नारदं ऋषि च पाठयति / एकदा कुड्यान्तरतो जैनसाधुमुखादेषु द्वौ नरकगामिनाविति श्रुत्वा क्षीरकदम्बकेन चिन्तितम्-राजपुत्रस्तु नरकगामी "राज्यं नरकान्तं" इत्युक्तेः, तेन द्वौ परीक्ष्येते / ततोऽलक्तरसेन भृतश्चर्मच्छगलो नारदाय समर्पितो यत्र कोऽपि न पश्यति तत्र त्वया हन्तव्य इत्युक्त्वा / तमादाय गतो वनान्तरे नारदश्चिन्तयितुं लग्नः / अत्र सिद्धाः केवलिनोऽहं च सर्वेऽपि पश्यन्ति, अतो न हन्तव्य एव, एत्य गुरवेऽर्पितः / कथितं च-विधिना निषेधः प्राप्तः / ज्ञातम्-सुगतिभागसौ / तथैव पर्वताय समर्पितः / तेन वनान्तरे हतः / ज्ञातम्-नरकगामी / उपाध्यायो व्रतं गृहीत्वा सुगतिं ययौ / ततो वसु पो जातः सत्यवादी लोकेऽभूत् / एकदा नारदः पाठकशाला समेतः / तदा पर्वतोऽजा:-बोत्कटा यष्टव्या इति द्विजानध्यापयति / नारदेन गदितम्-अजा:-सप्तवर्षव्रीहयः, न जायन्ते वापिता इति अजाः, अत्र गौणार्थः, न तु मुख्यार्थः द्वयोर्विवादे प्रभाते सकललोकसमक्षं पृष्टो वसुनृपः पर्वतदाक्षिण्यात् कूटसाक्षी बभूव / तदा देवेन सिंहासनात् पातितो मृत्वा नरकं जगाम / प्रशंसितो लोकैर्नारदः सत्यवाक् क्रमेण सुगतिं ययौ / इति एकोनत्रिंशत्तमकाव्यार्थः // 29 // अथ पुस्तकमाश्रित्य धर्ममाहसूत्रम् सद् बृंहितं प्रवरपुस्तकमस्तपापं पुण्योपकारि परमं परमैः प्रपूज्यम् / सम्भालनादिकरणाच्छिवदं त्वयोक्तं ज्ञानं त्वयि स्फुरति विश्वविकाशहेतुः // 30 // व्याख्या-सदिति / अयि इति कोमलामन्त्रणे / हे प्रभो ! त्वया प्रवरपुस्तकंसुवर्णाद्यक्षरमयज्ञानकोशलक्षणं शिवदं-मुक्तिदमुक्तं-कथितम् / कस्मात् ? सम्भालनादिकरणात् हेतोः / कथंभूतं प्रवरपुस्तकम् ? सत्-निरन्तरं अर्चितं वा बृंहितं-वृद्धि नीतं लिखितेन लिखापनेन चेति / पुनः कथं० प्र० पु० ? अस्तपापं-गतपापं, धर्मपुस्तकं-धर्मपुस्तकस्योपष्टम्भदायकं अन्यपुस्तकमपि नोपेक्षणीयम् / पुनः कथं- प्र० पु० ? 'पुण्योपकारि' पुण्याय-धर्माय उपकरोतीत्येवंशीलम् / पुनः कथं० प्र० पु० ? परमं-प्रधानं, भाव 1. 'कस्मिन् ग्रामे' इति ख-पाठः / 2. 'भूतचर्म०' इति क-पाठः /