________________ श्रीभावप्रभसूरिकृतम् सूत्रम् जैनो यती जिनजनो जिनसद्म जैनं ज्ञानं जिनो जगति पञ्च शुभा जकाराः / नाभेयभूर्भणति तेष्वनघे सदा किं त्वत्सङ्गमे सुमनसो न रमन्त एव ? // 28 // व्याख्या—(जैनो यतीति ) जगति-लोके पञ्च शुभाः-श्रेयस्करा जकारा वर्तन्ते / तानाह-'जैनो यती' जिनो देवता अस्येति जैन: जिनसम्बन्धी साधुः, जिनजन:-सम्यग्दृष्टिः, जिनसद्म-जिनमन्दिरं, जैनं ज्ञान-जिनभाषित आगमः, जिन:-अर्हन् देवः इति / नाभेयभूःश्रीभरत:चक्री भणति-वक्ति-हे जिन ! सदा सुमनसः-पण्डिताः तेषु-पञ्चजकारेषु किं न रमन्ते एव ? अपि तु रमन्ते एव / कस्मिन् सति ? त्वत्सङ्गमे सति / कथंभूते त्वत्सङ्गमे ? अनघे-पापरहिते प्रशस्ये / यतः केशिकुमारसाधुना प्रदेशीराजा प्रतिबोधित: 1 / श्रीमहावीरेणापि अम्बडाय प्रोक्तम्-त्वया सुलसा मदर्थं सम्भाषणीया विलोकनीया च / तेन हरिप्रमुखं रूपं दर्शयताऽपि सा न चलितेति 2 / यत्र स्थाने जिनालयः तत्र साधुनाऽपि चातुर्मासकं स्थेयम् 3 / पुष्पचूलाराज्ञी नरकावासं स्वर्गं च स्वप्ने ददर्श / पाषण्डिभिस्तत्स्वरूपं प्रोक्तं न घटितं, श्रीअनिकासुताचार्यैस्तत् प्रोक्तं तु तथैव मिलितमिति सा प्रतिबुद्धा आर्या जातेति प्रसिद्धम् / / अष्टादशदोषरहितो रागद्वेषमुक्तो जिनोऽर्हन्नेव देवः / अत्र सवैया इकतीसा छुटे अन्तराय पञ्च रंचही न राग रोस हास छक्क काम कीनो अंचहीन देषीयै वंचना अज्ञानकी मिथ्यातको प्रपञ्च निद्द आश्रवको संचसो तो मूलथै विलेषीये / एसे जो अढार दोष घातीकर्मभाव पोष ताको परिशोष याके ज्ञानमै विशेषीइ सोइ शुद्ध नामकोष घोषतें अनंत तोष मोषमग्गदाता त्राता देवदेव लेखीये // 1 // 3 _ -(श्रीयशोविजयगणिगुम्फिते दिक्पट 84 बोलेतिसंज्ञके "ग्रन्थे 18) इत्यष्टाविंशतितमवृत्तस्यार्थः // 28 // 1. जैनो यतीत्यादीनां क्रमेण उदाहरणानि / 2. तात्पर्यम्विनाशोऽन्तरायपञ्चकस्य तिलमात्रमपि रागरोषयोरस्तित्वं न हासादिषट्कस्य कामस्य च क्षयः अज्ञानस्य वञ्चनायाः, मिथ्यात्वस्य प्रपञ्चस्य, निद्रायाः आश्रवसञ्चयस्य च मूलतो विलेखनम् / एते येऽष्टादश दोषा घातिकर्मभावपोषकास्तेषां परिशोषो यस्य ज्ञाने विशेषतः स एव शब्दनामकोषः तस्य घोषात् अनन्तस्तोषः, स मोक्षमार्गदाता त्राता देवदेवो गण्यते / 3. सन्तुल्यतां यदुक्तं श्रीहेमचन्द्राचार्यैः अभिधानचिन्तामणौ (का० 1, श्लो० ७२-७३)"अन्तराया दान-लाभ-वीर्य-भोगो-पभोगगाः / हासो रत्यरती भीतिर्जुगुप्सा शोक एव च // 1 // कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा / रागो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी // 2 // " 4. मुद्रितोऽयं ग्रन्थः प्रकरणरत्नाकरे (भा०१)।