________________ सूत्र - 14] कोणिकनृपवर्णनम् सुप्पसूते निरंतरं रायलक्खणविराइयंगमंगे, बहुजण-बहुमाणपूजिए, सव्वगुणसमिद्धे, खत्तिए, मुइए, मुद्धाभिसित्ते, माउपिउसुजाए, दयपत्ते, सीमंकरे, सीमंधरे, खेमंकरे, खेमंधरे, मणुस्सिदे, जणवयपिया, जणवयपाले, जणवयपुरोहिए, सेउकरे, केउकरे, नरपवरे, पुरिसवरे, पुरिससीहे, पुरिसवग्घे, पुरिसआसीविसे, पुरिसपोंडरीए, पुरिसवरगंधहत्थी, अड़े, दित्ते, वित्ते, वित्थिण्ण-विपुल-भवण-सयणासण-जाण-वाहणाइण्णे, बहुधण-बहुजायरूव-रयए, आओग-पओगसंपउत्ते, विच्छड्डियपउरभत्तपाणे, बहुदासी-दास-गो-महिस-गवेलगप्पभूए, पडिपुण्ण-जंतकोस-कोट्ठागाराउधागारे, बलवं, दुब्बलपच्चामित्ते, ओहयकंटयं, निहयकंटकं, मलियकंटयं, . [14] राजवर्णके लिख्यते- 'महयाहिमवंत-महंत मलय-मंदरमहिंदसारे' महाहि मवानिव महान् शेषराजपर्वतापेक्षया, तथा मलयः- पर्वतविशेषो, मन्दरो-मेरुः, महेन्द्र:-पर्वतविशेष: शक्रो वा, तद्वत्सार :- प्रधानो य: स तथा / 'अच्चन्तविसुद्ध-दीहरायकुलवंस-सुप्पसूए' अत्यन्तविशुद्धो-निर्दोषो दीर्घः चिरकालीनो यो राज्ञां कुलरूपो वंशस्तत्र सुष्ठ प्रसूतो य: स तथा / 'निरंतरं रायलक्खणविराईयंगमंगे' राजलक्षणैः- स्वस्तिकादिभि: विराजितमङ्गमङ्गं -गात्रं यस्य स तथा, मकारस्तु प्राकृतशैलीप्रभवः। 'मुदिए 'त्ति मुदितः प्रमोदवान्, अथवा निर्दोषमातृको, यदाह -"मुइओ जो होइ जोणिसुद्धो" त्ति 'मुद्धाभिसित्ते'त्ति पितृपितामहादिभिः राजभिर्वा यो राज्येऽभिषिक्तः / 'माउपिउसुजाए'त्ति पित्रोविनीततया सत्पुत्रः / 'दयपत्ते 'त्ति प्राप्तकरुणागुणः / 'सीमंकरे 'त्ति सीमाकारी, मर्यादाकारीत्यर्थः। 'सीमंधरे 'त्ति कृतमर्यादापालकः / एवं 'खेमंकरे खेमंधरे 'त्ति क्षेमं पुनरनुपद्रवता / 'मणुस्सिंदे'त्ति मनुजेषु परमेश्वरत्वात् / 'जणवयपिय'त्ति जनपदानां पितेव हितत्वात् / 'जणवयपाले 'त्ति तद्रक्षकत्वात् / 'जणपयपुरोहिए 'त्ति जनपदस्य शान्तिकारित्वात् / 'सेउकरे 'त्ति मार्गदर्शक 1. माउं पिउं सुजाए-सूत्र कृ. 646, 'मातुं पितुं सुजातं जहच्छिते मणोरहे पूरयति' इति तत्रैव चूणिः // 2. दयप्पत्ते-सूत्रकृ. // 3. इतोऽग्रे-" सव्वगुणसमिद्धे सर्वैः शौर्योपशमादिभिर्गुणैः समृद्धः स्फितः सर्वगुणसमृद्धः, खत्तिएत्ति क्षत्रस्या ऽपत्यं क्षत्रियः" इति राज.वृ.१० A मध्ये व्याख्यातः, अत्र वृत्तिकारेण न व्याख्यातः / / 4. तथा दया(द्रव्य) प्राप्तः स्वभावत: शुद्धजीवद्रव्यत्वात्' इति राज. वृ.१०B ||