________________ श्री औपपातिकसूत्रम् कज्जलाङ्गी-कज्जलगृहं, शृङ्गभेदः-महिषादिविषाणच्छेदः रिष्टकं-रत्नम्, अशनको-बीयकाभिधानो वनस्पतिः, सनबन्धनं-सनपुष्पवृन्तम् / 'मरकय-मसार-कलित्त-नयणकीयरासिवण्णे' मरकतं-रत्नं मसारो-मसृणीकारकः पाषाणविशेषः, स चात्र कषपट्ट : सम्भाव्यते, कलित्तं ति-कटिवं कृत्तिविशेषः नयनकीका-नेत्रमध्यतारा तद्राशिवर्णः काल इत्यर्थः / 'निद्धघणे स्निग्धघन: 'अट्ठसिरे 'अष्ट शिराः अष्टकोण इत्यर्थः। 'आयसयतलोवमे सुरम्मे ईहामिय-उसभ-तुरग-नर-मगर-विहग-वालग-किण्णर-रुरु-सरभ-चमर-कुंजरवणलय-पउमलय-भत्तिचित्ते' ईहामृगाः-वृकाः, व्यालका:- श्वापदभुजगाः / 'आईणगरूय-बूर-नवणीय-तूलफासे' आजिनकं-चर्ममयवस्त्रं, रूतं-प्रतीतं, बूरो-वनस्पतिविशेषः, तूलम्-अर्कतूलं, 'सीहासणसंठिए'-सिंहासनाकार :, पासादीए जाव पडिरूवेत्तिं // वाचनान्तरे पुनः शिलापट्टकवर्णकः किञ्चिदन्यथा दृश्यते, स च संस्कृत्यैव लिख्यतेअञ्जनक-घन-कुवलय-हलधर-कौशेयकैः सदृशः घनो मेघ इत्यर्थः, आकाश-केशकज्जलकर्केतनेन्द्रनीला-ऽतसीकुसुमप्रकाशः, कर्केतनेन्द्रनीले रत्नविशेषौ, भृङ्गा-ऽञ्जन-शृङ्गभेदरिष्टक-नीलगुलिका-गवलातिरेक-भ्रमरनिकुरम्बभूतः भृङ्ग:-कीटविशेषोऽङ्गारविशेषो वा, अञ्जनं-सौवीराञ्जनं, शृङ्गभेदो-विषाणच्छेदो विषाणविशेषो वा, रिष्ट :-काकः फलविशेषो वा, अथवाऽरिष्ट-नीले रत्नविशेषौ, गुलिका-वर्णद्रव्यविशेष: गवलं-महिषशृङ्गम्, एतेभ्यो-ऽतिरेको नीलतयाऽतिरेकवान् यः स तथा, स चासौ भ्रमरनिकुरम्बभूतश्चेति कर्मधारयः, निकुरम्ब:समूह :, जम्बूफला-ऽसनकु सुमबन्धन-नीलोत्पलपत्रनिकर-मरकता-ऽऽशासकनयनकीकाराशिवर्णः आशासको-वृक्षविशेषः। स्निग्धो-घनोऽत एवाऽशुषिर :, 'रूपकप्रतिरूपदर्शनीयः' रूपकैः प्रतिरूपो-रूपवान् अत एव दर्शनीयश्च दर्शनयोग्यो यः स तथा, स मुक्ताजालखचितान्तकर्मा -मुक्ताजालकपरिगतप्रान्त इत्यर्थः / / 13 / / 14 - तत्थ णं चंपाए नयरीए कोणिए नाम राया परिवसइ / महयाहिमवंत-महंत-मलय-मंदरमहिंदसारे, अच्चंतविसुद्ध-दीहरायकुलवंस१. ०वीयराखं // 2. खं. B कुञ्जर० नास्ति // 3. श्वापदा: भुजगा: वा-ज्ञाता. वृ. 8 B // 4. "इह ग्रन्थे वाचनाद्वयमस्ति, तत्रैकां बृहत्तरां व्याख्यास्यामो द्वितीया तु प्राय: सुगमैव यच्च तत्र दुरवगाहम् तदिह व्याख्यानतोऽवबोद्धव्यम्" ज्ञाता.वृ. पत्र 8 // 5. इतोऽग्रे पु प्रेLS मध्ये राय. वृ. पत्र 90 मध्ये च वाचनान्तरसंवादिपाठः इत्थं दृश्यते - "अंजणघणकुवलय-हलधरकोसेज्जसरिये (सो / राय.वृ.) आगासकेसकज्जलकक्केय[रय पु प्रे.]ण इंदनीलअयसिकुसुमप्पगासे भिंगंजणसिंग (भंग-राय. वृ.) भेयरिट्ठगनीलगुलियगवलाइरग (गे-राय. वृ.) भमरनिगुरुंब (निकुरंब-राय. वृ.) भूए" // 6. राया होत्था / महया० पुप्रे. / / 7. महाहिमवंतमलय० इति सूत्रकृतांगे पाठः / इतोऽग्रे राजवर्णकः सूत्रकृतांगे तुल्यप्रायः दृश्यते / अंते 'जहा उववाइए' इति सू. 2 / 1 / 646 /