________________ सूत्र - 2-5] वनखण्डवर्णनम् प्रतीतानि / 'हरियमन्ते' त्ति क्वचिद् दृश्यते, तत्र हरितानि-नीलतरपत्राणि / 'अणुपुव्वसुजाय-रुइल-वभाव-परिणय'त्ति आनुपूर्येण-मूलादिपरिपाट्या सुष्ठ जाता रुचिराः वृत्तभावं च परिणताः परिगता वा ये ते तथा / 'अणेगसाहप्पसाहविडिमा' अनेक शाखाप्रशाखो विटप:- तन्मध्यभागो वृक्षविस्तारो वा येषां ते तथा / 'अणेगनरवामसुप्पसारिय-अगेज्झ-घण-विपुल-बद्ध-खंधे'त्ति अनेकाभिर्नरवामाभिः सुप्रसारिताभिरग्राह्यो घनो-निबिडो विपुलो-विस्तीर्णो बद्धो-जातः स्कन्धो येषां ते तथा, वाचनान्तरेऽत्र स्थानेऽधिकपदान्येवं दृश्यन्ते-'पाईण-पडीणाययसाला उदीण-दाहिणवित्थिण्णा ओणयनय-पणय-विप्पहाइय-ओलंब पलंबसाहप्पसाहविडिमा अवातीणपत्ता अणुईण्ण-पत्ता' इति, अयमर्थः- प्राचीन-प्रतीचीनयों:-पूर्वा-ऽपरदिशोरायता-दीर्घा शाला-शाखा येषां ते तथा, उदीचीन-दक्षिणयो:-उत्तर-याम्ययोर्दिशोर्विस्तीर्णा-विष्कम्भवन्तो ये ते तथा, अवनताअधोमुखा नता-आनम्राः प्रणताश्च-नन्तुं प्रवृत्ताः विप्रभाजिताश्च विशेषतो विभागवत्यः अवलम्बा-अधोमुखतया अवलम्बमानाः प्रलम्बाश्च-अतिदीर्घाः शाखाः प्रशाखाश्च-यस्मिन् स तथाविधो विटपो येषां ते तथा, अवाचीनपत्राः-अधोमुखपर्णाः अनुद्गीर्णपत्रा:-वृत्ततया अबहि निर्गतपर्णाः / अच्छिद्दपत्ता अविरलपत्ता अवाईणपत्ता अणईइपत्ता निद्भूयजरढपंडुपत्ता नवहरिय भिसंत-पत्तभारंधकार-गंभीर-दरिसणिज्जा उवणिग्गय-नव-तरुण अथाधिकृतवाचनाऽनुश्रि यते- 'अच्छिद्दपत्तो' नीर न्ध्रपत्राः। 'अविरलपत्ता' निरन्तरदलाः / 'अवाईणपत्ता' अवाचीनपत्रा अधोमुखपलाशाः, अवातीनपत्रा वा-अवातोपहतबर्हाः। 'अणईइपत्ता' इतिविरहि तच्छदाः। 'निळूयजरढपंडुपत्ता' अपगतपुराणपाण्डुरपत्राः। 'नवहरिय-भिसंत-पत्तभारंधकार-गंभीरदरिसणिज्जा' नवेन हरितेन भिसंतत्तिदीप्यमानेन पत्रभारेण-दलचयेनान्धकारा-अन्धकारवन्तः अत एव गम्भीराश्च दृश्यन्ते ये ते 1. खं. / वृत्तभावैश्च-मु.। 2. वृक्षावयवविशेषो वेति. प्र.'.इति मु. टिप्पणे // 3. विउलवट्ट(बद्ध) खंधे-मु.। नाया.वृ.पत्र 5, जीवा. वृ. पत्र 187, राय. वृ. प 6A मध्ये 'वृत्त' इति व्याख्या कृता / / 4. "उवविणिग्गय० राय.वृ.प. 14, जीवा० 3/274, जंबू. शावृ. पत्र 29, हीवृ. पत्र 13" इति V पृ.७ टि. 5. // 5. किमुक्तं भवति ?' न तेषां पत्रेषु वातदोषतः कालदोषतो वा गड्डरिकादिरितिरुपजातो येन तेषु पत्रेषु छिद्राण्यभविष्यन्नित्यच्छिद्रपत्रः' इति राय. वृत्तौ 6A // 6. अविरलपत्रा इति, अत्र हेतौ प्रथमा, ततोऽयमर्थः- यतो अविरलपत्रा अतोऽच्छिद्रपत्राः,... अवातीनपत्रत्वादविरलपत्राः. अतीतिपत्रत्वादच्चाच्छिद्रपत्राः, रा.७.६B ||