________________ 12 श्री औपपातिकसूत्रम् पत्त-पल्लव-कोमलउज्जल-चलंतकिसलय-सुकुमालपवाल-सोभितवरं कुरग्गसिहरा निच्चं कुसुमिया निच्चं माइया निच्चं लवइया निच्चं थवइया निच्चं गुलइया निच्चं गोच्छिया निच्चं जमलिया निच्चं जुलिया निच्चं विणमिया णिच्चं पणमिया णिच्चं कुसुमिय-माइय-लवइय-थवइय-गुलइयगोच्छिय-जमलिय-जुवलिय-विणमिय-पणमिय-सुविभत्त-'पिंडि-मंजरि वडिंसयधरा // 5 // तथा / 'उवणिग्गय-नव-तरुण-पत्त-पल्लव-कोमलउज्जलचलंतकिसलय-सुकुमालपवाल-सोहियवरंकुरग्गसिहरा' उपनिर्गतैर्नवतरुणपत्रपल्लवैः-अत्यभिनवपत्रगुच्छै: तथा कोमलोज्ज्वलैश्चलद्भिः किशलयैः-पत्रविशेषैः तथा सुकुमारप्रवालैः शोभितानि वराङ्कराणि अग्रशिखराणि येषां ते तथा / इह च अङ्कुर- प्रवाल-किसलय-पत्राणामल्पबहुबहुतरादिकालकृताऽवस्थाविशेषाद्विशेषः सम्भाव्यत इति / 'निच्चं कुसुमिया' इत्यादि व्यक्तं, नवरं 'माइय'त्ति मयूरिताः ‘लवइय'त्ति पल्लविता: 'थवइय'त्ति स्तबकवन्त: 'गुंलइया' गुल्मवन्तः 'गोच्छिया' जातगुच्छाः, यद्यपि च स्तबक गुच्छ योरविशेषो नामकोशेऽधीतस्तथाऽपीह पुष्पपत्रकृतो विशेषो भावनीयः, 'जमलिय'त्ति यमलतया-समश्रेणितया व्यवस्थिताः, 'जुवलिय'त्ति युगलतया स्थिताः, “विणमिय'त्ति विशेषेण फल-पुष्पभारेण नताः, पणमिय'त्ति तथैव नन्तुमारब्धाः, प्रशब्दस्यादिकार्थत्वात् / 'निच्चं कुसुमिय-माइय-लवइय-थवइयगुलइय-गोच्छित-जमलिय-जुवलिय-विणमिय-पणमिय-सुविभत्त-पिंडि-मंजरिवडिंसगधर'त्ति केचित् कुसुमिताद्येकैकगुणयुक्ताः अपरे तु समस्तगुणयुक्ताः, ततः कुसुमिताश्च ते इत्येवं कर्मधारयः, नवरं सुविभक्ताः-सुविविक्ता: सुनिष्पन्नतया पिण्ड्योलुम्ब्यो मञ्जर्यश्च प्रतीतास्ता एव अवतंसका:-शेखरकास्तान् धारयन्ति ये ते तथा // 5 // 1. पु.प्रे.। पिंड० मु. NV पाठा. / जीवा. वृ. पत्र 182 जंबू. शावृ. पत्र 25 राय. वृत्तौ च 'पडि-मंजरि' इति पाठः 'प्रतिविशिष्टो मञ्जरीरूपो' राय. वृ. 7A / / 2. खं. B | प्रवालपल्लवकि० मु.। 3. 'निच्चं मालइया (मउलिया) इति नित्यं सर्वकालं मुकुलितानि, मुकुलानि नाम कुड्मलानि कलिका इत्यर्थः' राय.वृ.६ BI जीवा.वृ.पत्र 182 जंबू. शावृ. पत्र 25 अपि'मुकुलिता' इति व्याख्ग, जंबू.ही.वृ. पत्र 13 मुकुलिता मयूरिता इति / 4. गुलुइया B खं. / मेना-इत्थर्थः // 5. विविक्ता- B खं.। "औपपातिकादौ तु 'सुविभत्तपडि (पिंड) मंजरीवडिंसगधराओ' इति पाठस्तत्र सुविभक्ता - अतिविभक्ताः सुनिष्पन्नतया पिण्ड्यो-लुम्ब्यो मञ्जर्यश्च प्रतीता: शेषं तथैव " इति जम्बू. शा. वृ.२५ //