________________ श्री औपपातिकसूत्रम् परिक्षिप्ता या सा तथा / 'कविसीसय-वट्टरइय-संठियविरायमाणा' कपिशीर्षकैर्वृत्तरचितैःवर्तुलकृतैः संस्थितैः-विशिष्टसंस्थानवद्भिर्विराजमाना-शोभमाना या सा तथा / 'अट्टालय-चरियदार-गोपुर-तोरण-उण्णय-सुविभत्तरायमग्गा' अट्टालका:- प्राकारोपरिवाश्रयविशेषाः, चरिका:- अष्ट हस्तप्रमाणा नगरप्राकारान्तरालमार्गाः, द्वाराणि-प्राकारद्वारिकाः, गोपुराणि-पुरद्वाराणि, तोरणानि-प्रतीतानि, उन्नतानि-गुणवन्ति उच्चानि च यस्यां सा तथा, सुविभक्ता:-विविक्ता राजमार्गा यस्यां सा तथा, ततः पदद्वयस्य कर्मधारयः / 'छेयायरिय-रइयदढफलिह-इंदकीला' छेकेननिपुणेनाऽऽचार्येण-शिल्पिना रचितो दृढो-बलवान् परिघ:-अर्गला इन्द्रकीलश्च-गोपुरावयवविशेषो यस्यां सा तथा / 'विवणि-वणिच्छेत्त-सिप्पियाइण्ण-णिव्वुयसुहा' विपणीनां-वणिक्पथानां हट्टमार्गाणां, वणिजां च-वाणिजकानां च, क्षेत्रं स्थानं या सा तथा, शिल्पिभिः-कुम्भकारादिभिराकीर्णा अत एव जनप्रयोजनसंसिद्धर्जनानां निर्वृतत्वेन सुखितत्वेन च निर्वृता सुखा च या सा तथा / वाचनान्तरे छेत्तशब्दस्य स्थाने छेयशब्दोऽभिधीयते, तत्र च छेकशिल्पिकाकीर्णेति व्याख्येयम् / सिंघाडग-तिग-चउक्क-चच्चर-पणियावण-विविहवसुपरिमंडिया, सुरम्मा, नरवइ-पविइन्न-महिवइपहा, अणेगवरतुरग-मत्तकुंजर-रहपहकर-सीयसंदमाणीयाइन्न-जाण-जुग्गा, विमउल-नवनलिणि-सोभियजला, पंडुरवरभवणसन्निमहिया, उत्ताणग-नयण-पेच्छणिज्जा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा // 1 // 'सिंघाडग-तिग-चउक्क-चच्चर-पणियावण-विविह वसुपरिमंडिया' शृङ्गाटकं-त्रिकोणं स्थानं, त्रिकं-यत्र रथ्यात्रयं मिलति, चतुष्कं -रथ्याचतुष्कमीलकं, चत्वरं-बहुरथ्यापातस्थानं, पणितानि-भाण्डानि तत्प्रधाना आपणा-हट्टाः, विविधवसूनि-अनेकविधद्रव्याणि, एभिः परिमण्डिता या सा तथा, पुस्तकान्तरेऽधीयते-'सिंघाडग-तिंग-चक्क-चच्चर-चउम्मुह-महापहपहेसु पणियावणविविह वेसपरिमंडिया' तत्र चतुर्मुखं-चतुर्दारं देवकुलादि, महापथो-राजमार्गः, पन्थाः-तदितर :, ततश्च शृङ्गाटकादिषु पणितापणैः विविधवेषैश्च जनैर्विविधवेश्याभिर्वा परिमण्डिता या सा तथा / 'सुरम्मा' अतिरमणीया / 'नरवइपविइण्णमहिवइपहा' नरपतिनाराज्ञा प्रविकीर्णो-गमनागमनाभ्यां व्याप्तो महीपतिपथो-राजमार्गो यस्यां सा तथा अथवा-नरपतिना 1. इन्द्रकीलश्च-सम्पाटितकपाटद्वयाधारभूतः प्रवेशमध्यभागो यस्यां सा तथा-राय.वृ. 3 A / / 2. पंडर० खं. // 3. ०भवणपंतिमहिया-रायवृ. 4. Bवस्तुनि-मु. / /