________________ सूत्र - 2] पूर्णभद्रचैत्यवर्णनम् प्रविकीर्णा-विक्षिप्ता निरस्ताऽन्येषां महीपतीनां प्रभा यस्यां सा तथा, अथवा-नरपतिभिः प्रवितीर्णा महीपतेः प्रभा यस्यां सा तथा / 'अणेगवरतुरग-मत्तकुंजर-रहपहकर-सीयसंदमाणीयाइण्णजार्ण-जुग्गा' अने कैर्वरतुरगैमत्तकुञ्जरै :, रहपहकरत्ति-रथनिकरै :, शिबिकाभिः स्यन्दमानीभिराकीर्णा-व्याप्ता यानैर्युग्यैश्च या सा तथा, अथवा-अनेके वरतुरगादयो यस्याम् आकीर्णानि च गुणवन्ति यानादीनि यस्यां सा तथा, तत्र शिबिका:- कुटाकारेणाऽऽच्छादिता जम्पानविशेषाः, स्यन्दमानिका:-पुरुषप्रमाणजम्पानविशेषाः, यानानि-शकटादीनि, युग्यानिगोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येवेति / 'विमउलनवनलिणिसोभियजला' विमुकुलाभि:-विकसितकमलाभिनवाभिनलिनीभिः-पद्मिनीभिः शोभितानि जलानि यस्यां सा तथा / 'पंडुर-वरभवण-सण्णिमहिया' पाण्डुरै :-सुधाधवलैः वरभवनैः-प्रासादैः सम्यक् नितरां महितेव महिता-पूजिता या सा तथा / 'उत्ताणयनयण-पेच्छणिज्जा' सौभाग्यातिशयादुत्तानकैः -अॅनिमिषितैर्नयनैः-लोचनैः प्रेक्षणीया या सा तथा / 'पासातीया' चित्तप्रसत्तिकारिणी / 'दरिसणिज्जा' यां पश्यच्चक्षुः श्रमं न गच्छ ति / 'अभिरूवा' मनोज्ञरूपा। 'पडिरूवा' द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा तथेति // 1 // .. 2 - तीसे णं चंपाए नयरीए बहीया उत्तरपुरथिमे दिसीभाए पुन्नभद्दे नामं चेइए होत्था-चिरातीए, पुव्वपुरिस-पन्नत्ते पोराणे, सद्दिते, वित्तिते, णाए, ___ [2] 'तीसे 'त्ति तस्यां, 'ण'मित्यलङ्कारे चम्पायां नगर्याम् ‘उत्तरपुरस्थिमे' त्ति उत्तरपौरस्त्येउत्तरपूर्वायामित्यर्थः, 'दिसिभाए'त्ति दिग्भागे, पूर्णभद्रं नाम चैत्यं-व्यन्तरायतनं, ‘होत्थ'त्ति अभवत् / चिराइए पुव्वपुरिस-पण्णत्ते' चिरम्-चिरकाल आदि:-निवेशो यस्य तच्चिरादिकम्, अत एव पूर्वपुरुषैः-अतीतनरैः प्रज्ञप्तम्-उपादेयतया प्रकाशितं पूर्वपुरुषप्रज्ञप्तम् / 'पोराणे'ति चिरादिकत्वात्पुरातनम् / 'सद्दिए 'त्ति शब्दः-प्रसिद्धिः सञ्जातो यस्य तच्छब्दितम् / 'वित्तिए'त्ति वित्तं-द्रव्यं तदस्ति यस्य तद्वित्तिकं, वृत्तिं वाऽऽश्रितलोकानां ददाति यत्तद्वृत्तिदम् / 'कित्तिए'त्ति पाठान्तरं, तत्र कीर्त्तितं-जनेन समुत्कीर्त्तितं कीर्त्तिदं वा / ‘णाए'त्ति न्यायनिर्णायकत्वात् न्यायः, ज्ञातं वा-ज्ञातसामर्थ्यमनुभूततत्प्रसादेन लोकेनेति / // 1. B खं.। प्रविकीर्णा-मु.॥ २.जाणभुंगा B // ३.०मानाभि० ज्ञाता. वृत्तौ पत्र 4 // 4. खं.। ०त्तानिकैः-मु.। ०त्तानैः- ज्ञाता.वृत्तौ पत्र 4 // 5. अनिमेषैः-खं.। अनिमिषै० ज्ञाता. वृत्तौ / 6. प्रासादेषु भवा प्रासादीया प्रासादबहुला इत्यर्थः- इति राज.वृ. 3B // 7. जम्बूद्वीपप्र.ही.वृत्तौ चिरादिकं, चिरातीतं, चिरातिगं-इति पाठवयं , व्याख्यातमस्ति, चीरातीतमिति पाठ : स्वीकृतोऽस्ति // 8. राज.वृत्तौ. कित्तिए-इति पाठः / /