________________ सूत्र - 1] चंपानगरी वर्णनम् चित्रफलकंहस्ता भिक्षाकाः, तूणइल्ला:-तूणाभिधानवाद्यविशेषवन्तः, तुम्बवीणिका वीणावादकाः, अनेके च ये तालाचरा:-तालादानेन प्रेक्षाकारिणस्तैरनुचरिता-आसेविता या सा तथा / 'आरामुज्जाण-अगड-तलाय-दीहिय-वप्पिण-गुणोववेया' आरमन्ति येषु माधवीलतागृहादिषु दम्पत्यादीनि ते आरामाः, उद्यानानि-पुष्पादिमवृक्षसङ्कुलान्युत्सवादौ बहुजनभोग्यानि, 'अगडत्ति' अवटा:-कूपाः, तडागानि-प्रतीतानि, दीर्घिका-सारणी, 'वप्पिण'त्ति केदाराः, एतेषां ये गुणा रम्यतादयस्तैरुपपेता-युक्ता या सा तथा, उप अप इत इत्येतस्य शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादकार लोपे उपपेतेति भवति / क्वचित्पठ्यते 'नन्दणवणसन्निभप्पकासा' नन्दनवनं-मेरौ द्वितीयवनं तत्प्रकाशसन्निभः प्रकाशो यस्यां सा तथा, इह चैकस्य प्रकाशशब्दस्य लोपः उष्ट्रमुख इत्यादाविवेति / 'उव्विद्ध-विपुल-गम्भीरखायफलिहा' उविद्धम्-उण्डं विपुलं-विस्तीर्णं गम्भीरम् अलब्धमध्यं खातम्-उपरि विस्तीर्णम् अधः सङ्कटं, परिखा च-अध उपरि च समखातरूपा यस्यां सा तथा / चक्क-गय- मुसुंढि -ओरोह-सयग्घि-जमलकवाडघणदुप्पवेसा, धणुकुडिलवंकपागार-परिक्खित्ता, कविसीसगवट्टरइयसंठितविरायमाणा, अट्टालगचरिय-दार-गोपुर-तोरण-उन्नयसुविभत्तरायमग्गा, छेयायरिय-रइतदढफलिहइंदकीला, विवणिवणिच्छेत्त-सिप्पियाइन्न-निव्वुयसुहा, ‘चक्क-गय-मुसुंढि-ओरोह-सयग्घि-जमलकवाड-घणदुप्पवेसा' चक्राणि-रथाङ्गानि अरघट्टाङ्गानि वा, गदा:-प्रहरणविशेषाः, मुसुण्ढयोऽप्येवम् अवरोधः-प्रतोलीद्वारेष्ववान्तरप्राकार : सम्भाव्यते, शतघ्नयो-महायष्टयो महाशिला वा या उपरिष्टात्पातिताः सत्यः शतानि पुरुषाणां घ्रन्तीति, यमलानि-समसंस्थितद्वयरूपाणि यानि कपाटानि घनानि च निश्छिद्राणि तैर्दुष्प्रवेशा या सा तथा / धनुकुडिलवंकपागारपरिक्खित्ता धनुःकुटिलं कुटिलधनुस्ततोऽपि वक्रेण प्राकारेण 1. खं. B नाया. वृत्तौ प.३ / भिक्षुका:- मु. // 2. B खं. नाया.वृ.जंबूद्वीप प्र.पु.वृत्ति, शा. वृ.पत्र 9 ।०वप्पिण० // 3. सक० खं. B // ४.०मुसंढि० पु.प्रे. खं. LN रायवृ.पत्र 5, जंबू.पु.वृ.पत्र 4 हीवृ. पत्र 9 / मुसुंढि० मु. V.N.B "इसका आकार शतघ्नी समान होता है" जैन सा. बृ.इति. भा.२ पृ. 10 / विशेषार्थं द्रष्टव्यं War in Ancient India // ५.०त्तपयमग्गा JBI // 6. V / इंदखीला-पु.प्रे. N पाठा. खं. J. // 7. खं.B | प्रतोलि०मु.। 8. महाशिलामय्य:ज्ञाता. वृ.प.३। शतघ्नी स्वरूपे विशेषार्थं द्रष्टव्यं "जैन आगमसाहित्यमें भारतीय समाज" पृ. 107 टि.६।।