________________ श्री औपपातिकसूत्रम् भड-तक्कर-खंडरक्खरहिता खेमा, 'सिवा, निरुवद्दवा, सुभिक्खा। वीसत्थसुहावासा, अणेग-कोडिकुडुंबियाइन्ननिव्वुतसुहा नड-नट्टग-जल्ल-मल्ल-मुट्ठियवेलंबग-कहक-पवक-लासक-आइक्खग-लंख-मंख-तूणइल्ल -तुंबवीणियअणेगतालायराणुचरिया, आरामुज्जाण-अगड -तलाय-दीहिय-वप्पिण गुणोववेया, नंदणवणसन्निभप्पकासा, उविद्धविपुल-गंभीर-खातफलिहा, लञ्चेत्यर्थस्तया ये व्यवहरन्ति ते औत्कोटिका: गात्रात्-मनुष्यशरीरावयवविशेषात् कट्यादेः सकाशात् ग्रन्थि-कार्षापणादिपोट्टलिकां भिन्दन्ति-आच्छिन्दन्तीति गात्रग्रन्थिभेदका: 'उक्कोडिय-गाहगंठिभेयय' इति च पाठान्तरं व्यक्तं, भटाः-चारभटाः बलात्कारप्रवृत्तयः तस्करा:तदेव-चौर्यं कुर्वन्तीत्येवंशीलाः खण्डरक्षा:-दण्डपाशिकाः शुल्कपाला वा एभी रहिता या सा तथा, अनेन तत्रोपद्रवकारिणामभावमाह। 'खेमा' अशिवाभावात् / ‘णिरुवद्दवा' निरुपद्रवा, अविद्यमानराजादिकृतोपद्रवेत्यर्थः / ‘सुभिक्खा' सुष्ठ-मनोज्ञाः प्रचुरा भिक्षा भिक्षाकाणां यस्यां सा सुभिक्षा / अत एव पाषण्डिनां गृहस्थानां च 'वीसत्थसुहावासा' विश्वस्तानां -निर्भयानामनुत्सुकानां वा सुख:-सुखस्वरूपः शुभो वा आवासो व्यस्यां सा तथा / 'अणेगकोडिकुडुंबियाइण्ण-निव्वुयसुहा'अनेका: कोटयो द्रव्यसङ्ख्यायां स्वरूपपरिमाणे वा येषां ते अनेककोटयः तैः कौटुम्बिकैः-कुटुम्बिभिराकीर्णा-सङ्कुला या सा तथा, सा. चासौ निर्वृता चसन्तुष्टजनयोगात्सन्तोषवतीति कर्मधारयः, अत एव सा चासौ सुखा च शुभा वेति कर्मधारयः। नड-नट्टग-जल्ल-मल्ल-मुट्ठिय-वेलम्बग-कहक-पवग-लासग-आइक्खगलंख-मंख-तूणइल्ल-तुम्बवीणिय-अणेगतालायराणुचरिया' नटा:-नाटकानां नाटयितारो नर्त्तका ये नृत्यन्ति, अङ्किला इत्येके, जल्ला -वरत्राखेलकाः, राज्ञः स्तोत्रपाठका इत्यन्ये, मल्ला:प्रतीताः मौष्टिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति, विडम्बका:-विदूषकाः, कथका:- प्रतीताः, प्लवका-ये उत्प्लवन्ते नद्यादिकं वा तरन्ति, लासका-ये रासकान् गायन्ति, जयशब्दप्रयोक्तारो वा, भाण्डा इत्यर्थः, आख्यायका-ये शुभाशुभमाख्यान्ति, लक्षा-महावंशानखेलकाः, मलाः 1. पुप्रे. | BNVमु. सिवा नास्ति / / 2. वप्पिणि-v मु. // 3. ००चिह्नद्वयमध्यवर्तिपाठः पु.प्रे. / जंबू.ही.वृ. वर्तते / v जंबूपु. नाया. वृ. नास्ति, अत्र वृत्तौ पाठान्तरे दर्शितोऽस्ति // 4. खं। भिक्षुका० मु. / 5. पासंडिगिहत्थवीसत्थ० इति जम्बूद्वीप प्र. ही. वृत्तौ / 6. अङ्कोल्ला-इति नाया. वृत्तौ पत्र 3 // 7. आख्यापका:खं.। आख्यायिका-नाया. वृत्तौ पत्र 3 /