________________ सूत्र - 1] चंपानगरीवर्णनम् आकीर्णजनमनुष्येत्युक्तम्, आकीर्णो वा-गुणव्याप्तो मनुष्यजनो यस्यां सा तथा / 'हलसयसहस्स-सट्ठि-विकिट्ठ-लट्ठ-पण्णत्त-सेउ-सीमा' हलानां-लाङ्गलानां शतैः सहस्रैश्च शतसहस्रैर्वा-लक्षैः संकृष्टा-विलिखिता विकृष्टं-दूरं यावद्, अविकृष्टा वा-आसन्ना, लष्टामनोज्ञा कर्षकाभिमतफलसाधनसमर्थत्वात् ‘पण्णत्त'त्ति योग्यीकृता बीजवपनस्य सेतुसीमा मार्गसीमा यस्याः सा तथा, अथवा-संकृष्टादिविशेषणानि सेतूनि-कुल्याजलसेक्यक्षेत्राणि सीमासु यस्याः सा तथा, अथवा-हलशतसहस्राणां सङ्कृष्टेन-संकर्षणेन विकृष्टा-दूरवर्त्तिन्यो लष्टाः प्रज्ञप्ताः कथिताः सेतुसीमा यस्याः सा तथा, अनेन तज्जनपदस्य लोकबाहुल्यं क्षेत्रबाहुल्यं चोक्तम् / 'कुक्कुड-संडेय-गाम-पउरा' कुक्कुटा:-ताम्रचूडाः षांण्डेया:-षण्डपुत्रकाः तेषां ग्रामाः-समूहास्ते प्रचुरा:-प्रभूताः यस्यां सा तथा, अनेन लोकप्रमुदितत्वं व्यक्तीकृतम्, प्रमुदितो .. हि लोकः क्रीडार्थं कुक्कुटान् पोषयति षण्डांश्च करोतीति / उच्छु-जव-सालि-कलिया' पाठान्तरेण ‘उच्छु-जव-सालि-मालिणीया' एतद्व्याप्तेत्यर्थः, अनेन च जनप्रमोदकारणमुक्तम्, न ह्येवंप्रकारवस्त्वभावे प्रमोदो जनस्य स्यादिति / 'गो-महिस-गवेलग-प्पभूया' गवादयः प्रभूताः-प्रचुरा यस्यामिति वाक्यम्, गवेलगा-उरभ्राः / 'आयारवन्त-चेइय-जुवइ-विसपिणविट्ठबहुला' आकारवन्ति-सुन्दराकाराणि आकारचित्राणि वा यानि चैत्यानि-देवता- 15 यतनानि युवतीनां च-तरुणीनां पण्यतरुणीनामिति हृदयं, यानि विविधानि सन्निविष्टानि-सन्निवेशनानि पाटकास्तानि बहुलानि-बहूनि यस्यां सा तथा, 'अरहन्तचेइय-जणवयविसण्णिविट्ठ-बहुले'ति पाठान्तरं, तत्रार्हच्चैत्यानां जनानां व्रतिनां च विविधानि यानि सन्निविष्टानि-पाटकास्तैर्बहुलेति विग्रहः 'सुयाग-चित्तचेइय-जूयचियसण्णिविठ्ठ-बहुला' इति च पाठान्तरम्, तत्र च सुयागा:-शोभनयज्ञाः चित्रचैत्यानि-प्रतीतानि यूपचितयो-यज्ञेषु 20 यूपचयनानि द्यूतानि वा क्रीडाविशेषा: चितयः-स्तूपाः तेषां सन्निविष्टा-निवेशास्तैर्बहुला या सा तथा, 'उक्कोडिय-गाय-गंठिभेयय-भड-तक्कर-खंडरक्खरहिया' उत्कोटा-उत्कोचा 1. सङ्कट्टविय? * BJ खं.। वियट्ठ नाया. वृत्तौ / संकिट्ठविगिट्ठ 0 राय० वृत्तौ पत्र 2 A // 2. JB खं. / प्रज्ञपिता:-मु. / 'प्रज्ञया विशिष्ट कर्मबुद्ध्या आप्ते प्राप्ते अतीव सुष्ठ परिकर्मिते इति भावः' इति सूर्यप्रज्ञप्तिवृत्तौ प. 293 / 'प्राज्ञैः छेकैराप्ता प्रज्ञाप्ताः' इति राय.व.२ Al // 3. कुक्कुडसम्पात्या ग्रामाः सर्वासु दिक्षु विदिक्षु च प्रचुरा यस्याः सा कुक्कुडसण्डेयग्रामप्रचुराः इति राय. वृ.पृ. 2 A | व्याकरणमहाभाष्ये 'कुक्कुटसम्पात्या: ग्रामाः' इति उदाहरणं दृश्यते // 4. JB खं. / षण्डेया-मु. / पाण्डेया-नाया-वृत्तौ / / 5. गाव: स्त्रीगव्य एलका: उरभ्रास्ते प्रभूता यस्यां सा' इति राय. वृ.प.२ A // 6. आयारइंत० JBL खं. // 7. JB खं. / विविह सं० मु.।। 8. B खं.। अरिहन्तचेईय० मु. एतत्पाठान्तरं जम्बूद्वी.पु.व.पत्र३ ही. वृ.पत्र 8 व्याख्यातम् // 9. सुवाग० जम्बूद्वीपप्र. ही. वृत्तौ। 10. चिइस० खं. पु. प्रे.।। 11. स्तुपयागा:- B | सुपयागा-खं / /