________________ श्री औपपातिकसूत्रम् 1- तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था। 'रिद्धस्थिमियसमिद्धा, पमुइयजण-जाणपदा, आइन्न-जणमणूसा, हल-सय-सहस्स-संकिट्ठविकिट्ठ-लट्ठ-पण्णत्तसेउसीमा, कुक्कुड-संडेयगामपउरा उच्छु-जव-सालि कलिया, गो-महिस-गवेलग-प्पभूता, आयारवन्तचेतिय-जुवतिविसन्निविट्ठ५ बहुला, Aसुयाग-चित्तचेइयजूयचिइसन्निविट्ठबहुला, A उक्कोडिय-गाय-गंठिभेदग __[1] तेणं कालेणमित्यादिः / अस्य व्याख्या - इह च बहवो वाचनाभेदा दृश्यन्ते, तेषु च यमेवावभोत्स्यामहे तमेव व्याख्यास्यामः, शेषास्तु मतिमता स्वयमूह्या: / तत्र योऽयं 'ण'शब्दः स वाक्यालङ्कारार्थः / 'ते' इत्यत्र च य एकारः स प्राकृतशैलीप्रभवः, यथा “करेमि भंते !" इत्यादिषु / ततोऽयं वाक्यार्थो जात:-तस्मिन् काले तस्मिन् समये यस्मिन्नसौ नगरी 10 बभूवेति, अधिकरणे चेयं सप्तमी / अथ काल-समययोः कः प्रतिविशेषः? उच्यते-काल इति सामान्यकालो वर्तमानाऽवसर्पिण्याश्चतुर्थविभागलक्षणः, समयस्तु तद्विशेषो यत्र सा नगरी स राजा वर्द्धमानस्वामी च बभूव / अथवा तृतीयैवेयं, ततश्च तेन कालेन अवसर्पिणीचतुर्थाऽऽर कलक्षणेन हेतुभूतेन तेन समयेन तद्विशेषभूतेन हेतुना चम्पा 'नाम नगरी 'होत्थत्ति' अभवद् 15 आसीदित्यर्थः / ननु चेदानीमपि साऽस्ति किं पुनरधिकृतग्रन्थकरणकाले? तत्कथमुक्त मासीदिति ? उच्यते- अवसर्पिणीत्वात् कालस्य वर्णकग्रन्थवर्णितविभूतियुक्ता सा त(इ)दानी नास्तीति / ऋ(रि)द्ध-स्थिमिय-समिद्धा' ऋद्धा-भवनादिभिर्वृद्धिमुपगता, स्तिमिताभयवर्जितत्वेन स्थिरा, समृद्धा-धनधान्यादियुक्ता, ततः पदत्रयस्य कर्मधारयः / ‘पमुइयजण जाणवया' प्रमुदिताः-हृष्टाः प्रमोदकारणवस्तूनां सद्भावाद् जना:-नगरीवास्तव्यलोका 20 जानपदाश्च-जनपदभवास्तत्राऽऽयाताः सन्तो यस्यां सा प्रमुदितजनजानपदा, पाठान्तरे 'मुइय जणुज्जाण-जणवया' तत्र मुदितजनान्युद्यानानि जनपदाश्च यस्यां सा तथा / 'आइण्णजणमणूसा' मनुष्यजनेन आकीर्णा-सङ्कीर्णा, मनुष्यजनाकीर्णेतिवाच्ये राजदन्तादिदर्शनाद् 1. रिद्धत्थमिय० BN पाठां. V पाठां. // 2. खं.। विय? B नाया.वृ.पत्र-१, विगिट्ठ०जंबू. पु.व. पत्र 3, विअट्ठ० जंबू. हीवृ. पत्र 8 // 3 B पु.प्रे.। ०जुवइविविहसन्नि० मु.V | विसिट्ठ० राय. वृ.प.४.॥ 4. AA चिह्नद्वयवर्तिपाठः / पु.प्रे. जंबू.ही.वृ.अस्ति, मु. नास्ति / वृत्तौ पाठान्तरेण स्वीकृतः / जंबू. ही.वृत्तौ सूवया० इति पाठः // 5 तुला-ज्ञातासूत्रवृत्तिः पत्र 1 तः // 6. तदानीम् आसीत् इदानीं नास्ति-इति ज्ञाता. वृत्तौ पत्र 25/ 7. खं. / ऋद्धित्थि० BJ || 8. ०पदश्च -JB II