________________ // अर्हम् // नमः सर्वज्ञाय // चतुर्दशपूर्वधरश्रुतस्थविरसंकलितं श्रीमदभयदेवसूरिसंदृब्धविवरणयुतं श्री औपपातिकसूत्रम् * श्रीवर्द्धमानमानम्य, प्रायोऽन्यग्रन्थवीक्षिता / औपपातिकशास्त्रस्य, व्याख्या काचिद् विधीयते // 1 // अथौपपातिकमिति कः शब्दार्थः? उच्यते- उपपतनमुपपात:-देव-नारकजन्म सिद्धिगमनं च, अतस्तमधिकृत्य कृतमध्ययनमौपपातिकम् / इदं च उपाङ्ग वर्त्तते, आचाराङ्गस्य हि प्रथममध्ययनं शस्त्रपरिज्ञा, तस्याऽऽद्योद्देशके सूत्रमिदम् - “एवमेगेसिं नो नायं भवइ अत्थि वा मे आया उववाइए, नत्थि वा मे आया उववाइए, के वा अहं आसी, के वा इह चुए पेच्चा इह भविस्सामि?" इत्यादि / इह च सूत्रे यदौपपातिकत्वमात्मनो निर्दिष्टं तदिह प्रपञ्च्यत इत्यर्थतोऽङ्गस्य समीपभावेनेदमुपाङ्गम् / अस्य चोपोद्घातग्रन्थोऽयम् - इदं तुं ध्येयम् - इह सम्पादनार्थं J (जेसलमेरीय) खं. अथवा पुप्रे. (खंभातस्थ) भां. (भांडारकर इंस्टी. पुना स्थित) L लीवंडी ज्ञान भंडार ........ V इति जैन विश्वभारती (लाडनू) मुद्रितस्य (उवंगसुत्ताणि भाग.१) सङ्केत: मु. इति आगमोदयसमिति प्रकाशितस्य सङ्केतः // Jखं. L तालपत्रीय प्रतय सन्ति / / 1. अथौपपातिकः शब्दार्थ: BJ / / 2. "आचाराङ्गवृत्तिकाराभिप्रायेण एवेत्यादिर्भवइपर्यन्तः पाठो द्वितीयसूत्रोपसंहारवाक्यरूपः" इति मु. टि. // 3. तोंगमस्य BJ || श्री औप. 1