________________ ॥श्री शंखेश्वरपार्श्वनाथाय नमः // // श्री सिद्धि-भद्र-ॐकार-अरविंद-यशोविजय-जिनचन्द्रविजय गुरुभ्यो नमः // ( आमुखम् / ___प्रथमम् उपाङ्गं श्रीऔपपातिकसूत्रमिदं नवाङ्गीटीकाकारश्री अभयदेवसूरिटीकासमलङ्कृतम् अनेकप्राचीनताडपत्रीयआदर्शानुसारं सम्पादितं संशोधितं सत् प्राकाश्यमानीयते इति आनन्दप्रदमिदम् / . आगमप्रभाकरमुनिश्री पुण्यविजयप्रारब्धायां 'श्रीजैन आगमग्रन्थमालायां' 'श्रीनन्दीसुत्तम् अणुओगद्दाराई' इत्यादिकाः ग्रन्थाः श्रीमहावीरजैनविद्यालयद्वारा अद्य यावत् प्रकाशिताः सन्ति / पू. मुनिश्री पुण्यविजयस्वर्गगमनानन्तरमिदम् आगमसंशोधनकार्यम् आगमप्रज्ञ पूज्यमुनिश्री जम्बूविजयः अनुवतितवान् / केचिच्च ग्रन्थाः प्रकाशिताः अपि / पूज्यमुनिश्रीजम्बूविजय-निधनानन्तरं महावीरविद्यालय-श्रीजिनागमसंसद् विज्ञप्तिकया अस्माभिः [आ. विजयमुनिचन्द्रसूरि-विजयधर्मधुरन्धरसूर्यादिभिः] इदं कार्यं निरूढम् / उपाङ्गग्रन्थेषु इदम् प्रथमम् उपाङ्गम् 'औपपातिका'ऽभिधम् प्रकाश्यते / उपाङ्गागमस्वरूपम् __ आगमानाम् अङ्गप्रविष्टाङ्गबाह्याद्याः विभागा: उपाङ्गग्रन्थानां च प्राचीनत्वम् इत्यादिकं प्राक्प्रकाशिताऽऽगमग्रन्थेषु पूज्यमुनिश्री पुण्यविजयद्वारा निर्दिष्टमेव अतः अत्र वयं तत्पौनरुक्त्यं न कुर्मः / मुनिश्रीपुण्यविजयेन प्रस्तुतोपाङ्गविषयकमिदं दर्शितम् यत् "औपपातिक-जीवाभिगम' इति उपाङ्ग द्वयस्य निर्देशः श्रीनन्दीसूत्रे उत्कालिकशास्त्रसूचौ अस्ति / एतदर्शनात् तद्गतवस्तुविषयाऽवलोकनात् च एतत् सम्भाव्यते यत् यदा दशवैकालिकसूत्र-रचना जाता, यदा च अर्वाक्कालिकाऽऽचार्याणाम् अङ्गग्रन्थविषयान् प्रकरणनिबद्धान् विधातुं प्रयत्नः जातः, तदानींतना रचना एषा इति / एतद्ग्रन्थेन उपाङ्गस्थाने यत् स्थानं लब्धं तेनाऽपि अस्य प्राचीनत्वं स्फुटं प्रतीयते / "