________________ 62 औपपातिकसूत्रम् __ औपपातिकसूत्रमिदं वर्णनात्मकम् / अत्र समवसरणं, श्रीवीरविभोः शरीरं, तद्गुणाः, साधु-तपांसि, कूणिकराजः, तद्राज्ञी धारिणी [सुभद्रा], चम्पानगरी इत्यादिकानां सविस्तरं रसपूर्ण वर्णनम् अलङ्कृतभाषया विहितं समुपलभ्यते / __ भगवतीसूत्रादिषु केषुचिद् अन्याऽऽगमग्रन्थेषु एतादृशवर्णनाऽवसरे 'जहा उववाइए' इति उक्त्वा 'उववाइ' सूत्र दर्शनार्थं तत्र तत्र सूचितमस्ति / इत्थम् आगम-ग्रन्थेषु बहुत्र एतदुपाङ्गोल्लेखः लभ्यते / तत्सूचिः अस्माभिः द्वितीये परिशिष्टे प्रदत्ता अस्ति / सम्पादनोपयुक्ताऽऽदर्शाः एतदुपाङ्गग्रन्थसम्पादने अस्माभिः अधोलिखिताः ग्रन्थाः उपयुक्ताः / यथा (1) 'खं' 'पुप्रे' वा / इत्यत्र खम्भातस्थितशान्तिनाथताडपत्रीयज्ञानभण्डारसत्क 15 क्रमाङ्कस्य अस्य ग्रन्थस्य 'CD' पूज्याचार्यश्रीविजयशीलचन्द्रसूरि-सकाशात् 'आ.श्री कैलाससागरसूरिज्ञानमन्दिर-कोबा' सकाशात् च प्राप्ता। (2) आगमप्रभाकरमुनिश्रीपुण्यविजयकारिता एतत्सूत्रप्रतिलिपिः टीकायाश्च पाठभेदाः इत्यादिकं 'लालभाई दलपतभाई भारतीय विद्यामन्दिर-अमदावाद' सकाशात् पं. जितेन्द्रकुमारसौजन्येन अधिगतम् / (3) 'J' जेसलमेरस्थितश्रीजिनभद्रसूरिज्ञानभंडारगतस्य '24/1 24/2' इतिक्रमाङ्कस्थितस्य तालपत्रीयग्रन्थस्य प्रतिकृतिः पूज्याचार्यश्रीविजयचन्द्रोदयसूरि गुरुबन्धु पूज्याचार्यश्री विजयाऽशोकचन्द्रसूरि शिष्यरत्नाचार्यश्री विजयसोमचन्द्रसूरिप्रेरणात: 'श्रीनेमिविज्ञानकस्तूरसूरिज्ञानमन्दिर [सुरत]' सकाशात् सम्प्राप्ता। (4) 'L' लीम्बडीस्थितस्य 'शेठ आणंदजी कल्याणजी' संचालितस्य ज्ञानभंडारस्य तालपत्रीयग्रन्थस्य प्रतिकृतिः 'आ. ॐकारसूरिशास्त्र संग्रह' [विजयभद्र चेरीटेबल ट्रस्ट, भीलडीयाज़ी] सकाशात् समधिगता / (5) 'V' जैन विश्वभारती [लाडनू] द्वारा प्रकाशिते 'उवंगसुत्ताणि' इति संस्करणे औपपातिकसूत्र ग्रन्थः प्राचीनहस्तलिखितग्रन्थत्रयाऽऽधारेण संशोधितः अस्ति / (6) मु. पूज्याचार्यश्री सागरानन्दसूरि द्वारा संशोधितः सम्पादितश्च [वि. 1972 वर्षे आगमोदय समितिद्वारा मुद्रितः] अपि अत्र उपयुक्तः / (7) 'N' एतद् संस्करणम् N. G. Suri इत्यनेन सम्पादितमस्ति, एतेषां सर्वेषाम् ऋणं वयं सनम्रभावं स्वीकुर्मः /