________________ 210 श्री औपपातिकसूत्रम् __ अन्ये पुनरिमां गाथामेवं व्याख्यान्ति-सिद्धसुखपर्यायराशिः नभःप्रदेशाग्रगुणितनभः प्रदेशाग्रप्रमाणाः, तत्परिमाणत्वात्सिद्धसुर्खपर्यायाणां, सर्वाद्धापिण्डितः-सर्वसमयसम्बन्धी सङ्कलितः सन्, स चानन्तैः अनन्तश इत्यर्थः, वर्गः-वर्गमूलैर्भक्त:-अपवर्तितः अत्यन्तं लघूकृत इत्यर्थः, यथा किल सर्वसमयसम्बन्धी सिद्धसुखराशिः पञ्चषष्टिः सहस्राणि पञ्च शतानि षट्त्रिशंच्चेति (65536), स च वर्गेणापवर्तितः सन् जाते द्वे शते षट्पञ्चाशदधिके (256) सोऽपि स्ववर्गापवर्तितो जाताः षोडश ततश्चत्वारः ततो द्वावित्येवमतिलघूकृतोऽपि सर्वाकाशे न मायाद्, एतदेवाह-'सव्वागासे न माएज्ज'त्ति // 15 / / जह नाम कोइ मेच्छो, नगरगुणे बहुविहे वियाणंतो / न चएइ परिकहिउं, उवमाए तहिं असंतीए // 16 // इय सिद्धाणं सोक्खं, अणोवमं नत्थि तस्स ओवम्म। किंचि विसेसेणित्तो, ओवम्ममिणं सुणह वोच्छं // 17 // अथ सिद्धसुखस्यानुपमतां दृष्टान्तेनाह-'जह' गाहा, पूर्वार्धं व्यक्तं, 'न चएइ 'त्ति न च शक्नोति परिकथयितुं नगरगुणानरण्यमागतोऽरण्यवासिम्लेच्छेभ्यः, कुत इत्याह- उपमायां तत्र नगरगुणेष्वरण्ये वाऽसत्यामिति, कथानकं पुनरेवम्- / / म्लेच्छः कोऽपि महारण्ये, वसति स्म निराकुलः / / अन्यदा तत्र भूपालो, दुष्टाश्वेन प्रवेशितः // 1 / / म्लेच्छेनासौ नृपो दृष्टः, सत्कृतश्च यथोचितम् / ' प्रापितश्च निजं देशं, सोऽपि, राज्ञा निजं पुरम् / / 2 // ममायमुपकारीति, कृतो राज्ञाऽतिगौरवात् / विशिष्टभोगभूतीनां, भाजनं जनपूजितः // 3 // ततः प्रासादशृङ्गेषु, रम्येषु काननेषु च / वृतो विलासिनीसाथै ते भोगसुखान्यसौ / / 4 / / अन्यदा प्रावृषः प्राप्तौ, मेघाडम्बरमण्डितम् / व्योम दृष्ट्वा ध्वनिं श्रुत्वा, मेघानां स मनोहरम् // 5 // जातोत्कण्ठो दृढं जातोऽरण्यवासगमं प्रति / 1. ०पर्याणां JB || 2. सिद्ध० खं. नास्ति / / 3. संजाता - खं. // 4. सिद्धि० खं. बाबु / / 5. JB | च-मु. नास्ति / / 6. खं. / त्वत्र-मु. बाबु ||