________________ 209 सूत्र -195.] सिद्धिसुखवर्णनादिः देवसुखमित्याह-अनन्ताभिरपि 'वर्गवर्गाभिः' वर्गवगैर्वगितमपि, तत्र तद्गुणो वर्गो यथा द्वयोर्गश्चत्वारः तस्यापि वर्गो वर्गवर्गो यथा षोडश एवमनन्तशो वर्गिर्तमपि। चूर्णिकारस्त्वाहअनन्तैरपि वर्गवर्गः-खण्डखण्डैः खण्डितं सिद्धसुखं तदीयानन्तानन्ततमखण्डसमतामपि न लभत इत्यर्थः, ततो नास्ति तन्मानुषादीनां सुखं यत्सिद्धानामिति प्रकृतम् / / 14 // सिद्धस्स सुहो रासी, सव्वद्धा पिंडितो जति हवेज्जा / सोऽणंतवग्गभइतो, सव्वागासे ण माएज्जा // 15 // सिद्धसुखस्यै-वोत्कर्षणाय भङ्गयन्तरेणाह-'सिद्धस्स'गाहा, 'सिद्धस्य' मुक्तस्य सम्बन्धी 'सुखः' सुखानां सत्को ‘राशिः' समूहः सुखसङ्घातः इत्यर्थः, 'सर्वाद्धापिण्डितः' सर्वकालसमयगुणितो यदि भवेद्, अनेन चास्य कल्पनामात्रतामाह, सोऽनन्तवर्गभक्तोअनन्तवर्गापवर्तितः सन्समीभूत एवेति भावार्थः, 'सर्वाकाशे'लोकालोकरूपे न मायात्, अयमत्र भावार्थ:- इह किंल विशिष्टाह्लादरूपं सुखं गृह्यते, ततश्च यत आरभ्य शिष्टानां सुखशब्दप्रवृत्तिस्तमालादमवधीकृत्य एकैकगुणवृद्धितारतम्येन तावदसावाह्लादो विशिष्यते यावदनन्तगुणवृद्ध्या निरतिशयनिष्ठां गतः, ततश्चासावत्यन्तोपमातीतैकान्तिकौत्सुक्यविनिवृत्तिरूप: स्तिमिततममहोदधिकल्पश्चरमाह्लाद एव सदा सिद्धानां भवति, तस्माच्चारात्प्रथमाच्चोर्ध्वमपान्तरालवतिनो ये तारतम्ये-नाह्लादविशेषास्ते सर्वाकाशप्रदेशराशेरपि भूयांसो भवन्तीत्यतः किलोक्तं'सव्वागासे न माएज्जत्ति, अन्यथा प्रतिनियतदेशावस्थितिः कथं तेषामिति सूरयोऽभिदधतीति।। अस्य च वृद्धोक्तस्याधिकृतगाथाविवरणस्यायं भावार्थ:-य एते सुख भेदास्ते सिद्धसुखपर्यायतया व्यपदिष्टाः, तदपेक्षया तस्य क्रमेणोत्कृष्यमाणस्यानन्ततमस्थानवर्तित्वेनोपचारात्, तद्राशिश्च किलासद्भावस्थापनया सहस्रं समयराशिस्तु शतं, सहस्रं च शतेन गुणितं जातं लक्षं, गुणनं च कृतं सर्वसमयसम्बन्धिनां सुखपर्यायाणां मीलनार्थं, तथाऽनन्तराशिः किल दश, तद्वर्गश्च शतं, तेनापवर्तितं लक्षं जातं सहस्रमेव, अतः पूज्यैरुक्तं 'समीभूत एवे'ति भावार्थ इति, यच्चेह सुखराशेर्गुणनमपवर्तनं च तदेवं सम्भावयामः-यत्र किलानन्तराशिना गुणितेऽपि सति अनन्तवर्गेणानन्तानन्तकरूपेणातीव महास्वरूपेणापवर्तिते किञ्चिदवशिष्यते, स राशिरतिमहान्, ततश्च सिद्धसुखराशिर्महानिति बुद्धिजननार्थं शिष्यस्य तस्यैव वा गणितमार्गे व्युत्पत्तिकरणार्थमिति / 1. मिति - खं. / श्री औप. 27