________________ 208 श्री औपपातिकसूत्रम् सिद्धः, तथा तेऽप्यसङ्ख्येयगुणा वर्तन्ते देशैः प्रदेशैश्च ये स्पृष्टाः, केभ्यः ?सर्वप्रदेशस्पृष्टेभ्यः, कथम् ?-सर्वात्मप्रदेशैस्तावदनन्ताः स्पृष्टाः, एकसिद्धावगाहनायामनन्तानामवगाढत्वात्, तथैकैकदेशेनाप्यनन्ता एवमेकैकप्रदेशेनाप्यनन्ता एव, नवरं देशो-व्यादिप्रदेशसमुदायः, प्रदेशस्तु-निविभागोऽश इति, सिद्धश्चासङ्ख्येयदेशप्रदेशात्मकः, ततश्च मूलानन्तकमसङ्ख्येयैर्देशानन्तकैरसङ्घयैरेव च प्रदेशानन्तकैर्गुणितं यथोक्तमेव भवतीति / स्थापना चेयम् // 10 // अथ सिद्धानेव लक्षणत आह-'असरीरा' गाहा, उक्तार्था, सङ्घहरूपत्वाच्चास्या न पुनरुक्तत्वमिति // 11 // केवलनाणुवउत्ता, जाणंति सव्वभावगुणभावे / पासंति सव्वतो खलु, केवलदिट्ठीहिऽणंताहिं // 12 // ण वि अत्थि माणुसाणं, तं सोक्खं ण वि य सव्वदेवाणं / जं सिद्धाणं सोक्खं, अव्वाबाहं उवगयाणं // 13 // जं देवाणं सोक्खं , सव्वद्धापिंडितं अणंतगुणं / ण य पावइ मुत्तिसुहं, अणंताहिं वि वग्मवग्गूहिं // 14 // 'उवउत्ता दंसणे य नाणे य'त्ति यदुक्तं, तत्र ज्ञानदर्शनयोः सर्वविषयतामुपदर्शयन्नाह'केवल'गाहा, केवलज्ञानोपयुक्ताः सन्तः न त्वन्त:करणोपयुक्ताः, भावतस्तदभावात्, 'जानन्ति सर्वभावगुणभावान्' समस्तवस्तु-गुणपर्यायान्, तत्र गुणा:-सहवर्तिनः पर्यायास्तुक्रमवर्तिन इति, तथा ‘पश्यन्ति सर्वतः खलु' सर्वत एवेत्यर्थः केवलदृष्टिभिरनन्ताभि:केवलदर्शनैरनन्तैरित्यर्थः, अनन्तत्वात् सिद्धानामनन्तविषयत्वाद्वा दर्शनस्य केवलदृष्टिभिरनन्ताभिरित्युक्तम्, इह चादौ ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिध्यन्तीति ज्ञापनार्थमिति // 12 // अथ सिद्धानां निरुपमसुखतां दर्शयितुमाह-‘णवि अत्थि'गाहा व्यक्ता, नवरम् 'अव्वाबाह'ति विविधा आबाधा व्याबाधा तन्निषेधादव्याबाधा तामुपगतानांप्राप्तानामिति // 13 // कस्मादेवमित्याह-'जं देवाणं'गाहा, 'यतो' यस्मा-देवानाम्अनुत्तरसुरान्तानां 'सौख्यं' त्रैकालिकसुखं सर्वाद्धया-अतीतानागत-वर्तमानकालेन पिण्डितंगुणितं सर्वाद्धापिण्डितं, तथाऽनन्तगुणमिति, तदेवंप्रमाणं किलासद्भावकल्पनयैकैकाकाशप्रदेशे स्थाप्यत इत्येवं सकललोकालोकाकाशानन्तप्रदेश-पूरणेनानन्तं भवति, न च प्राप्नोति मुक्तिसुखं-नैव मुक्तिसुखसमानतां लभते, अनन्तानन्तत्वात्सिद्धसुखस्य, किंविधं