________________ 207 सूत्र -195 ] सिद्धानाम् अवगाहनादिः तत्प्रमाणैव, "उच्चत्तं चेव कुलगरेहिं सम" मिति वचनात्, अतस्तदवगाहना उत्कृष्टावगाहनातोऽधिकतरा प्राप्नोतीति कथं न विरोधः ?, अत्रोच्यते, यद्यप्युच्चत्वं कुलकरतुल्यं तद्योषितामित्युक्तं, तथापि प्रायिकत्वादस्य स्त्रीणां च प्रायेण पुम्भ्यो लघुतरत्वात् पञ्चैव धनुःशतान्यसावभवत्, वृद्धकाले वा सङ्कोचात् पञ्चधनुः-शतमाना सा अभवद्, उपविष्टा वाऽसौ सिद्धेति न विरोधः, अथवा बाहुल्यापेक्षमिदमुत्कृष्टावगाहनामानं, मरुदेवी त्वाश्चर्यकल्पेत्येवमपि न विरोधः / ननु जघन्यतः सप्तहस्तोच्छ्रितानामेव सिद्धिः प्रागुक्ता, तत्कथं जघन्यावगाहना अष्टाङ्गुलाधिकहस्तप्रमाणा भवतीति ? अत्रोच्यते, सप्तहस्तोच्छ्रितेषु सिद्धिरिति तीर्थङ्करापेक्षं, तदन्ये तु द्विहस्ता अपि कूर्मापुत्रादयः सिद्धाः अतस्तेषां जघन्याऽवसेया, अन्ये त्वाहु:-सप्तहस्तमानस्य संवर्तिताङ्गोपाङ्गस्य सिद्धयतो जघन्यावगाहना स्यादिति / / 5-7 / / ओगाहणाए सिद्धा, भवतिभागेण होंति परिहीणा / संठाणमणित्थंत्थं जरामरणविप्पमुक्काणं // 8 // जत्थ य एगो सिद्धो, तत्थ अणंता भवक्खयविमुक्का / अण्णोण्णसमोगाढा, पुट्ठा सव्वे य लोगंते // 9 // फुसति अणंते सिद्धे, सव्वपएसेहिं णियमसा सिद्धो / ते वि असंखेज्जगुणा देसपएसेहिं जे पुट्ठा // 10 // असरीरा जीवघणा, उवउत्ता दंसणे य नाणे य / . सागारमणागारं, लक्खणमेयं तु सिद्धाणं // 11 // 'ओगाहणाए' गाहा व्यक्ता, नवरम् 'अणित्थंथं 'ति अमुं प्रकारमापन्नमित्थं इत्थं तिष्ठतीति इत्थंस्थं न इत्थंस्थम् अनित्थंस्थं-न केनचिल्लौकिकप्रकारेण स्थितमिति // 8 // अथैते किं देशभेदेन स्थिता उतान्यथेत्यस्यामाशङ्कायामाह-'जत्थ य'गाहा, यत्र च-यत्रैव देशे एकः सिद्धो-निर्वृतस्तत्र देशे अनन्ता किम् ?-'भवक्षयविमुक्ता' इति भवक्षयेण विमुक्ता भवक्षयविमुक्ताः, अनेन स्वेच्छया भवावतरणशक्तिमत्सिद्धव्यवच्छेदमाह / अन्योऽन्यसमवगाढाः तथाविधाचिन्त्यपरिणामत्वाद्धर्मास्तिकायादिवदिति, स्पृष्टाः-लग्नाः सर्वे च लोकान्ते, अलोकेन प्रतिस्खलितत्वाद्, अत एव 'लोयग्गे य पइट्ठिया' इत्युक्तमिति // 9 // तथा 'फुसइ' गाहा, स्पृशत्यनन्तान्सिद्धान् सर्वप्रदेशैरात्मसम्बन्धिभिः ‘णियमस'त्ति नियमेन 2. उच्चत्वमेव कुलकरैः समम् //