________________ 206 श्री औपपातिकसूत्रम् त्यादिवत् सिध्यन्तीति व्याख्येयमिति // 1 // अलोके अलोकाकाशास्तिकाये प्रतिहताः'प्रस्खलिताः सिद्धा-मुक्ताः, प्रतिस्खलनं चेहानन्तर्यवृत्तिमात्रं, तथा लोकाग्रे चपञ्चास्तिकायात्मकलोकमूर्धनि च प्रतिष्ठिता- अपुनरागत्या व्यवस्थिता इत्यर्थः, तथा इहमनुष्यक्षेत्रे बोन्दि-तनुं परित्यज्य तत्रेति-लोकाग्रे गत्वा सिज्झिईत्ति-सिध्यन्ति निष्ठितार्था भवन्ति / / 2 / / किञ्च-'जं संठाणं' गाहा व्यक्ता, नवरं प्रदेशघनमिति त्रिभागेन रन्ध्रपूरणादिति, 'तहिति सिद्धक्षेत्रे 'तस्स'त्ति सिद्धस्येति // 3 // दीहं वा हस्सं वा, जं चरिमभवे भवेज्ज संठाणं / तत्तो तिभागहीणा, सिद्धाणोगाहणा भणिया // 4 // तिन्नि सया तेत्तीसा, धणुत्तिभागो य होइ बोधव्वो / एसा खलु सिद्धाणं, उक्कोसोगाहणा भणिया // 5 // चत्तारि य रयणीओ रयणितिभागूणिया य बोधव्वा / एसा खलु सिद्धाणं, मज्झिमओगाहणा भणिया // 6 // एक्का य होइ रयणी, साहीआ अंगुलाई अट्ठ भवे / एसा खलु सिद्धाणं, जहण्णओगाहणा भणिया // 7 // तथा चाह-'दीहं वा'गाहा, दीर्घ वा-पञ्चधनुःशतमानं ह्रस्वं वा-हस्तद्वयमानं, वाशब्दान्मध्यमं वा, यच्चरमभवे भवेत्संस्थानं 'ततः' तस्मात् , संस्थानात् त्रिभागहीना त्रिभागेन शुषिरपूरणात् सिद्धानामवगाहना-अवगाहन्ते-अस्यामवस्थायामिति अवगाहना स्वावस्थैवेति भावः, भणिता-उक्ता जिनैरिति / / 4 // अथावगाहनामेवोत्कृष्टादिभेदत आह'तिण्णि सये'त्यादि, इयं च पञ्चधनुःशतमानानां ‘चत्तारि ये'त्यादि तु सप्तहस्तानाम् ‘एगा ये'त्यादि द्विहस्तमानानामिति / इयं च त्रिविधाऽप्यूर्ध्वमानमाश्रित्यान्यथा सप्तहस्तमानानां 'द्विहस्तमानानां च उपविष्टानां सिद्ध्यतामन्यथाऽपि स्यादिति / आक्षेप-परिहारौ पुनरेवमत्र-ननु नाभिकुलकरः पञ्चविंशत्यधिकपञ्चधनुःशतमानः प्रतीत एव, तद्भार्याऽपि मरुदेवी 1. बहुवचनप्रक्रमेऽप्युपसंहार एकवचनेन यथा तत्र 'जे य कन्ते' इत्यादिनोपक्रम्य 'वुच्चइ' इति क्रिययोपसंहार एकवचनेन, व्याख्यायां तु बहुवचनं कृतं तथाऽत्रापीतिभावः इति मु टिप्पणे / / 2. केवलाकाशास्तिकाये खं. // 3. प्रतिस्ख० BJ || 4. सिज्झइत्ति - J // 5. पूप्रे. J / द्विहस्तमानानां - मु. नास्ति / / .