________________ 188 श्री औपपातिकसूत्रम् विषयभूतेषु अथवा 'साहूहिति' उत्तरवाक्ये सम्बध्यते, ततश्च साधुभ्यः सकाशात् साध्वन्तिके इत्यर्थः, 'एगच्चाओ पाणाइवायाओ'त्ति एकस्मात् न सर्वस्मात् पाठान्तरे 'एगइयाओ'त्ति तत्र एकक एव एककिकः तस्मादेककिकात्, इत इदं सूत्रं प्रायः प्रागुक्तार्थं नवरं 'मिच्छादसणसल्लाओ'त्ति इह मिथ्यादर्शनं-तज्जन्यान्ययूथिकवन्दनादिका क्रिया ततो भावतो विरताः राजाभियोगादिभिस्त्वाकारैरविरता इति / एगतियाओ सगड-रह-जाण-जुंग-गिल्लि-थिल्लि-सीय-संदमाणियसयणासण-जाण-वाहण-भोयण-पवित्थरविधीओ पडिविरया जावज्जीवाए एगतियाओ अपडिविरया / एगइया कय-विक्कय-मासद्धमासरूवगसंववहाराओ पडिविरया [ एगच्चाओ अपडिविरया ] एगतियाओ हिरण्ण-सुवण्ण-धण-धन्न-मणि-मोत्तिय-संख-सिलप्पवालाओ पडिविरया एगच्चाओ अपडिविरया, एगच्चाओ कुडतुल कुडमाणाओ पडिविरया एगच्चाओ अपडिविरया एगच्चाओ आरंभ-समारंभाओ पडिविरया जावज्जीवाए, एगच्चाओ अपडिविरया / एगच्चाओ करण-कारावणाओ पडिविरया जावज्जीवाए, एगच्चाओ अपडिविरया / एगच्चाओ पयणपयावणाओ पडिविरया जावज्जीवाए, एगच्चाओ अपडिविरया / एगच्चाओ कोट्टण-पिट्टण-तज्जण-तालण-वह-बंध-परिकिलेसाओ पडिविरया जावज्जीवाए, एगच्चाओ अपडिविरया / एगच्चाओ पहाण-मद्दण-वन्नगविलेवण-सद्द-फरिस-रस-रूव-गंध-मल्लालंकाराओ पडिविरया जावज्जीवाए, एगच्चाओ अपडिविरया। जे यावण्णे तहप्पकारा सावज्जजोगोवहिया कम्मंता परपाणपरितावणकरा कज्जंति, ततो वि एकच्चातो पडिविरता जावज्जीवाए एकच्चातो अपडिविरया // 161 // 'कुट्टण-पिट्टण-तज्जण-तालण-वह-बंध-परिकिलेसाओ'त्ति कुट्टनं-खदिरादेरिव छेदविशेषकरणं पिट्टनं-वस्त्रादेरिव मुद्गरादिना हननं तर्जनं-परं प्रति ज्ञास्यसि रे ! जाल्मेत्यादिभणनं ताडनं-चपेटादिना हननं तालनं वा गृहद्वारादेस्तालकेन स्थगनं वधो-मारणं बन्धोरज्ज्वादिना यन्त्रणं परिक्लेशो-बाधोत्पादनं 'सावज्जजोगोवहिय'त्ति सावद्ययोगा औपधिकामायाप्रयोजनाः कषायप्रत्यया इत्यर्थः उपकरणप्रयोजना वा येषु ते तथा 'कम्मत 'त्ति