________________ 186 श्री औपपातिकसूत्रम् य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणा वुप्पाएमाणा विहरित्ता बहुई वासाइं सामण्णपरियागं पाउणंति, पाउणित्ता तस्स ठाणस्स अणालोइयअपडिक्ता कालमासे कालं किच्चा उक्कोसेणं उवरिमगेवेज्जेसु देवत्ताए उववत्तारों भवंति, तहिं तेसिं गती० एक्कतीसं सागरोवमाइं ठिती, आराहगा ? नो इणढे समढे // 160 // [160] 'बहुरय'त्ति बहुषु समयेषु रता-आसक्ताः बहुभिरेव समयैः कार्यं निष्पद्यते नैकसमयेनेत्येवंविधवादिनो बहुरता:-जमालिमतानुपातिनः, 'जीवपएसि'त्ति जीवः प्रदेश एवैको येषां मतेन ते जीवप्रदेशाः, एकेनापि प्रदेशेन न्यूनो जीवो न भवति ततो येनैकेन प्रदेशेन पूर्णः सन् जीवो भवति स एवैकः प्रदेशो जीवो भवतीत्येवंविधवादिनस्तिष्यगुप्ताचार्यमताविसंवादिनः 'अव्वत्तिय'त्ति अव्यक्तं समस्तमिदं जगत् साध्वादिविषये श्रमणोऽयं देवो वाऽयमित्यादिविविक्तप्रतिभासोदयाभावात्ततश्चाव्यक्तं वस्त्विति मतमस्ति येषां ते अव्यक्तिकाः, अविद्यमाना वा साध्वादिव्यक्तिरेषामित्यव्यक्तिकाः आषाढाचार्यशिष्यमतान्तःपातिनः 'सामुच्छेइय'त्ति नारकादिभावानां प्रतिक्षणं समुच्छेदं-क्षयं वदन्तीति सामुच्छेदिकाः अश्वमित्रमतानुसारिणः 'दोकिरिय'त्ति द्वे क्रिये-शीतवेदनोष्णवेदनादिस्वरूपे एकत्र समये जीवोऽनुभवतीत्येवं वदन्ति ये ते द्वैक्रिया गङ्गाचार्यमतानुवर्तिनः 'तेरासिय'त्ति त्रीन् राशीन् जीवाऽजीव-नोजीवरूपान् वदन्ति ये ते त्रैराशिका: रोहगुप्तमतानुसारिणः, 'अबद्धिय'त्ति अबद्धं सत्कर्म कञ्चकवत्पार्श्वत: स्पृष्टमात्रं जीवं समनुगच्छेतीत्येवं वदन्तीत्यबद्धिकाः गोष्ठामाहिलमता वलम्बिनः, उपलक्षणं चैतत् सत्क्रियावर्तिव्यापन्नदर्शनानामन्येषामपीति, 'पवयणनिह्नग'त्ति प्रवचन-जिनागमं निढुवतेअपलपन्त्यन्यथा तदेकदेशस्याभ्युपगमात्ते प्रवचननिह्नवकाः, केवलं 'चरियालिंगसामन्ना मिच्छादिट्ठी'त्ति मिथ्यादृष्टयस्ते विपरीतबोधाः नवरं चर्यया-भिक्षाटनादिक्रियया लिङ्गेन चरजोहरणादिना सामान्या:-साधुतुल्या इति 19 // 160 // 1. पु.प्रे.. / 2. द्र.सू. 90 / / 3. JB खं. / भवत्यतो-मु. // 4. पुष्यमित्र० JB || 5. खं. / ०च्छन्ती० मु. // 4. वदन्तीत्याब० खं. B / वदन्तीत्यवब० // 6. उवरिमेस गेवेज्जेस म. v / / 7. ०सामन्ना-इत्येतस्य श्रामण्या: इत्थपि सम्भवति //