________________ 160 श्री औपपातिकसूत्रम् / [96] 'परिव्वायग'त्ति मस्करिणः ‘संख' त्ति साङ्ख्याः बुद्ध्यहङ्कारादिकार्यग्रामवादिनः प्रकृतीश्वरयोः जगत्कारणत्वमभ्युपगता: 'जोई 'त्ति योगिन: अध्यात्मशास्त्रानुष्ठायिनः 'कविल' त्ति कपिलो देवता येषां ते कापिलाः, साङ्ख्या एव निरीश्वरा इत्यर्थः, 'भिउव्व' त्ति भृगुः-लोकप्रसिद्ध ऋषिविशेषस्तस्यैते शिष्या इति भार्गवाः, 'हंसा परमहंसा बहुउदगा कुलिव्वया' इत्येते चत्वारोऽपि परिव्राजकमते यतिविशेषाः, तत्र हंसा ये पर्वतकुहरपथाश्रमदेवकुलारामवासिनो भिक्षार्थं च ग्रामं प्रविशन्ति, परमहंसास्तु ये नदीपुलिनसमागमप्रदेशेषु वसन्ति चीरकौपीनकुशांश्च त्यक्त्वा प्राणान् परित्यजन्ति, बहूदकास्तु ग्रामे एकरात्रिका नगरे पञ्चरात्रिकाः प्राप्तभोगांश्च ये भुञ्जन्त इति, कुटीव्रताः-कुटीचराः, ते च गृहे वर्तमाना व्यपगतक्रोध-लोभ-मोहाः अहङ्कारं वर्जयन्तीति, 'कण्हपरिव्वायग'त्ति कृष्णपरिव्राजकाः परिव्राजकविशेषा एव, नारायणभक्तिका इति केचित्, कण्ड्वादयः षोडश * परिव्राजका लोकतोऽवसेयाः।। 96 // 97 - ते णं परिव्वाया रिउव्वेय-यजुव्वेय-सामवेद-अथव्ववेय इतिहासपंचमाणं निग्घंटुछट्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेयाणं सारगा पारगा धारगा सडंगवी सट्ठितंतविसारया संखाणे सिक्खाकप्पे वाकरणे छंदे निरुत्ते जोतिसामयणे अन्नेसु य बहुसु बंभन्नएसु य सत्थेसु सुपरिणिट्ठिया यावि होत्था // 97 // [97] 'रिउवेद-जजुब्वेद-सामवेद-अथव्ववेद' त्ति इह षष्ठीबहुवचनलोपदर्शनात् ऋग्वेद-यजुर्वेदसामवेदा-ऽथर्ववेदानामिति दृश्यम्, 'इतिहासपंचमाणं' ति इतिहासः पुराणमुच्यते 'निग्घंटुछट्ठाणं'ति निघण्टुः-नामकोशः 'संगोवंगाणं'ति अङ्गानि-शिक्षादीनि उपाङ्गानितदुक्तप्रपञ्चनपराः प्रबन्धाः ‘सरहस्साणं' ति ऐदम्पर्ययुक्तानामित्यर्थः 'चउण्हं वेयाणं'ति व्यक्तं 'सारय'त्ति अध्यापनद्वारेण प्रवर्तकाः स्मारका वा अन्येषां विस्मृतस्य स्मारणात् 'पारय'त्ति पर्यन्तगामिनः 'धारय'त्ति धारयितुं क्षमाः 'सडंगवी 'त्ति षडङ्गविदः-शिक्षादिविचारकाः 'सद्वितंतविसारय' त्ति कापिलीयतन्त्रपण्डिताः 'संखाणे'त्ति सङ्ख्याने-गणितस्कन्धे सुपरिनिष्ठिता इति योगः, अथ षडङ्गानि दर्शयन्नाह-'सिक्खाकप्पे 'त्ति शिक्षा च-अक्षरस्वरूपनिरूपकं शास्त्रं कल्पश्च-तथाविधसमाचारनिरूपकं शास्त्रमेवेति शिक्षाकल्पस्तत्र, 'वागरणे'त्ति शब्दलक्षणशास्त्रे 1. षड्दर्शनसमुच्चये पृ. 8 द्रष्टव्यम् / / 2. J / य परिव्वाएसु णएसु य परि० पु. प्रे. // 3. ०हासश्च पु० खं. //