SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ सूत्र -90] क्लिशितानाम् उपपाताः 153 तेसिं ‘णं भंते ! देवाणं केवइयं कालं ठिई पन्नत्ता ? गोयमा बारसवाससहस्साई ठिई 'पन्नत्ता / अत्थि णं भंते ! तेसिं देवाणं इड्डी इ वा जुई इ वा जसे इ वा बले इ वा वीरिए इ वा पुरिसक्कारपरक्कमे इ वा ? हंता अस्थि / ते णं भंते ! देवा परलोगस्स आराहगा ? नो इणढे समटे // 10 // शूलाचितकाः शूलिकाप्रोता: 'सूलभिन्नग'त्ति मस्तकोपरि निर्गतशूलिकाः 'खारवत्तिय'त्ति क्षारेण क्षारे वा तोक्षकतरुभस्मादिनिर्मितमहाक्षारे वर्तिता-वृत्तिं कारिताः तत्र क्षिप्ता इत्यर्थः, क्षारपात्रं वा कृता:-क्षारपात्रिताः तं भोजितास्तस्य वाऽऽधारतां नीता इत्यर्थः, 'वज्झवत्तिय'त्ति वर्षोण सह वृत्ति कारिता: वर्द्धपात्रिता वा-तेन बद्धा इत्यर्थः, उत्पाटितबद्धा वा, 'सीहपुच्छियग'त्ति इह पुच्छशब्देन मेहनं विवक्षितम् उपचारात् ततः सीहपुच्छं कृतं सञ्जातं वा येषां ते सिंहपुच्छितास्त एव सिंहपुच्छितकाः, "सिंहस्य हि मैथुनान्निवृत्तस्यात्याकर्षणात् कदाचिन्मेहनं त्रुट्यति एवं ये क्वचिदपराधे राजपुरुषैस्त्रोटितमेहनाः क्रियन्ते ते सिंहपुच्छितका व्यपदिश्यन्त इति, अथवा कृकाटिकातः पुतप्रदेशं यावद्येषां वर्ध उत्कर्त्य सिंहपुच्छाकारः क्रियते ते तथोच्यन्ते इति, 'दवग्गिदड्डग'त्ति दवाग्निः-दावानलस्तेन ये दग्धास्ते तथोक्ताः पंकोसन्नग'त्ति पङ्के ये अवसन्नाः-सर्वथा निमग्नास्ते प्रङ्कावसन्नाः ‘पंके खुत्तग'त्ति पङ्के मनाङ् मग्नाः केवलं तत उत्तरीतुमशक्ताः 'वलयमयग'त्ति वलन्तः-संयमाद् भ्रश्यन्तः अथवा बुभुक्षादिना वेल्लन्तो ये मृतास्ते वलन्मृतकाः ‘वसट्टमयग'त्ति वशेन-विषयपारतन्त्र्येण ऋता:-पीडिता वशार्ताः, वशं वाविषयपरतन्त्रतां ऋता-गता वशास्तेि सन्तो ये मृतास्ते वशार्तमृता वशर्तमृता वा शब्दादिरक्तहरिणादिवदिति ‘णियाणमयग'त्ति निदानं कृत्वा बालतपश्चरणादिमन्तो ये मृतास्ते तथा 'अंतोसल्लमयग'त्ति अनुद्धतभावशल्या मध्यवतिभल्लयादिशल्या वा सन्तो ये मृताः 'गिरिपडियग'त्ति गिरेः-पर्वतात्पतिताः गिरिष्-महापाषाणः पतितो येषामुपरि ते तथा, एवं तरुपतितकाः, 'मरुपडियग'त्ति मरौ-निर्जलदेशे पतिता ये ते तथा, मरोर्वानिर्जलदेशावयवविशेषात् स्थलादित्यर्थः पतिता ये ते तथा, 'भरपडियग'त्ति क्वचित्तत्र भरात्तृणकर्पासादिभरात्पतिता भरो वा पतितो येषामुपरि ते तथा, 'गिरिपक्खंदोलया' गिरिपक्षेपर्वतपार्श्वे छिनटङ्कगिरौ वाऽऽत्मानमन्दोलयन्ति ये ते तथा, तेषां च तदन्दोलनमन्दोलकात्पातेनात्मनो मरणार्थम्, एवं तरुपक्षान्दोलकादयोऽपीति, 'सत्थोवाडियग'त्ति शस्त्रेणात्मानमवपाटयन्तिविदारयन्ति मरणार्थं ये ते तथा, 'वेहाणसिग 'त्ति विहायसि-आकाशे तरुशाखादावात्मन उल्लम्बनेन यन्मरणं भवति तद्वैहायसं तदस्ति येषां ते प्राकृतशैलीवशात् वेहाणसिया, 'गिद्धपट्ठग'त्ति ये 1. पन्नत्ता जाव ते णं भंते परलेगस्स आराहगा ? / पु. प्रे. // 2. मोक्षक० B खं. // 3. पात्रे वा - B // 4. ०पात्रिक्यः - खं. // 5. सिंहमै० खं. // 6. पंका० खं. // 7. ०मल्ला० B || श्री औप. 20
SR No.004431
Book TitleUvavai Suttam
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherMahavir Jain Vidyalay
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy