________________ 154 श्री औपपातिकसूत्रम् मरणार्थं पुरुष-करि-करभ-रासभादिर्कलेवरमध्ये निपतिताः सन्तो गृधैः स्पृष्टास्तुण्डैविदारिता म्रियन्ते ते गृध्रस्पृष्टका: 'असंकिलिट्ठपरिणाम 'त्ति संक्लिष्टपरिणामा हि महारौद्रध्यानावेशेन देवत्वं न लभन्त इति भावः 6 // 90 // 91 - से जे इमे गामाऽऽगर जाव सन्निवेसेसु मणुस्सा भवंति / तं जहापयइभद्दगा पगइउवसंता पगइपतणुकोह-माण-माया-लोभा मिउ-मद्दवसंपन्ना अल्लीणा भद्दगा विणीया अम्मांपिउसुस्सूसगा अम्मापिऊणं अणतिक्कमणिज्जवयणा, अप्पिच्छा अप्पारंभा, अप्पपरिग्गहा, अप्पेणं आरंभेणं अप्पेणं समारंभेणं अप्पेणं आरंभसमारंभेणं, वित्तिं कप्पेमाणा बहुइं वासाइं आउयं पालिंति, पालित्ता कालमासे कालं किच्चा अन्नयरेसु वाणमंतरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति तहिं तेसिं गती तहिं तेसिं ठिती, तहिं तेसिं उववाए पण्णत्ते / तेसि णं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता? गोयमा ! चोद्दसवाससहस्साई ठिई पन्नत्ता / अस्थि णं भंते ! तेसिं देवाणं० आराहगा परलोए? नो इणढे समढे॥९१॥ [91] 'पगइभद्दग'त्ति प्रकृत्या-स्वभावत एव न परानुवृत्त्यादिना भद्रकाःपरोपकारकरणशीलाः प्रकृतिभद्रकाः ‘पगइउवसंता' इत्यत्र उपशान्ताः-क्रोधोदयाभावात् 'पगइपतणुकोहमाणमायलोभ'त्ति सत्यपि कषायोदये प्रतनुक्रोधादिभावाः 'मिउमद्दवसंपन्न'त्ति मृदु यन्मार्दवम्-अत्यर्थमहङ्कतिजयं ये सम्पन्ना:-प्राप्तास्ते तथा 'आलीण'त्ति आलीना-गुरुमाश्रिताः, 'भद्दग'त्ति क्वचित्तत्र भद्रका:-अनुपतापकाः सेव्यशिक्षागुणात्, तत एव विनीताः, एतदेवाह'अम्मापिऊण सुस्सूसगा' अम्बापित्रोः शुश्रूषका:-सेवकाः, अत एव 'अम्मापिऊणं अणइक्कमणिज्जवयणा' इहैवं सम्बन्धः-अम्बापित्रोः सत्कमनतिक्रमणीयं वचनं येषां ते तथा, तथा 'अप्पिच्छा' अमहेच्छाः 'अप्पारंभा अप्पपरिग्गह'त्ति इहारम्भः-पृथिव्यादिजीवोपमर्दः कृष्यादिरूपः परिग्रहस्तु-धनधान्यादिस्वीकारः, एतदेव वाक्यान्तरेणाह-'अप्पेण आरंभेण'मित्यादि, इहारम्भो-जीवानां विनाशः समारम्भ:-तेषामेव परितापकरणं, आरम्भसमारम्भस्त्वेतद्वयं, 'वित्ति'ति वृति-जीविकां 'कप्पेमाण'त्ति कल्पयन्तः कुर्वाणा: 7 // 91 // 1. ०कडे० खं. // 2. द्र. सू. 90 // 3. पितिसु० पु.प्रे. // 4. v पिईण० मु. पु.प्रे.।। 5. पु.प्रे.। वाणमंतस्सु तं चेव सव्वं णवरं ठिती चउदसवाससहस्साई - B.V. टिप्पणे सं. पा. | A द्र. सू. 90 / / 6. सद्य इति प्र० / 7. शुश्रूषका:खं. नास्ति / /