________________ सूत्र -83-86 ] श्री गौतमस्वामिनः प्रश्नाः 149 [84] अथाभिधित्सितोपपातस्य कर्मबन्धपूर्वकत्वात् कर्मबन्धप्ररूपणायाह-'जीवेण' मित्यादि, 'असंजयअविरयअप्पडिहयपच्चक्खायपावकम्मे' असंयतः-असंयमवान् अविरत:-तपसि न विशेषेण रतः, अथवा कस्मादसंयतः ?, यस्मादविरतो-विरतिवजितः, तथा न प्रतिहतानि-सम्यक्त्वप्राप्त्या ह्रस्वीकृतानि प्रत्याख्यातानि च-सर्वविरतिप्रतिपत्तितः प्रतिषेधितानि पापकर्माणि-ज्ञानावरणादीनि येन स तथा, अथवा प्रतिहतानि अतीतकालकृतानि निन्दाद्वारेण प्रत्याख्यातानि अनागतकालभावीनि निवृत्तितः पापकर्माणि-प्राणातिपातादिपापक्रिया येन स तथा, तन्निषेधेनाप्रतिहतप्रत्याख्यातपापकर्मा, ततः पूर्वपदाभ्यां सह कर्मधारयः, अत एव 'सकिरिए' सक्रिय:-कायिक्यादिक्रियायुक्त: 'असंवुडे' असंवृतः-अनिरुद्धेन्द्रियः ‘एगंतदंडे' एकान्तेनैवसर्वथैव दण्डयत्यात्मानं परं वा पापप्रवृत्तितो यः स एकान्तदण्डः, 'एगंतबाले' सर्वथा मिथ्यादृष्टिः, अत एव ‘एगंतसुत्ते' सर्वथा मिथ्यात्वनिद्रया प्रसुप्तः ‘पापकर्म' ज्ञानावरणाद्यशुभं कर्म 'अण्हाइ'? आस्नौति-आश्रवति बध्नातीत्यर्थः, हन्त! इति कोमलामन्त्रणे प्रत्यवधारणार्थो वा, 'अण्हाइ'त्ति आनौत्येव बध्नात्येवेत्युत्तरं, न ह्यसंयतादिविशेषणो जीवः कस्याञ्चिदवस्थायां कर्म न बध्नातीति 1 // 84 // 85 - जीवे णं भंते ! असंजयअविरयअप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते मोहणिज्जं पावं कम्म अण्हाति ? हंता अण्हाति // 85 // 86 - जीवे णं भंते ! मोहणिज्जं कम्मं वेएमाणे किं वेयणिज्जं कम्म बंधइ ? मोहणिज्जं कम्मं बंधइ ? गोयमा ! वेदणिज्जं पि कम्मं बंधइ, मोहणिज्जं पि कम्मं बंधइ, नन्नत्थ चरिममोहणिज्जं कम्मं वेएमाणे वेयणिज्जं कम्मं बंधइ, नो मोहणिज्जं कम्मं बंधइ // 86 // [86] तृतीयसूत्रे ‘णण्णत्थ चरिममोहणिज्जं कम्मं वेदेमाणे वेयणिज्जं कम्मं बंधइ, नो मोहणिज्जं 'त्ति नन्नत्थत्ति-नवरं केवलमित्यर्थः, चरममोहनीयं सूक्ष्मसम्परायगुणस्थानके लोभमोहनीयसूक्ष्मकिट्टिकारूपं वेदयन् वेदनीयं बध्नाति, अयोगिन एव वेदनीयस्याबन्धकत्वात्, न पुनर्मोहनीयं बध्नाति, सूक्ष्मसम्परायस्य मोहनीयायुष्कवर्जानां षण्णामेव प्रकृतीनां बन्धकत्वात्, यदाह "'सत्तविहबंधगा होंति पाणिणो आउवज्जियाणं तु / तह सुहुमसंपराया छव्विहबंधा विणिद्दिट्ठा // 1 // मोहाउयवज्जाणं पयडीणं ते उबंधगा भणिया" // 286 / / १.सप्तविधबन्धका भवन्ति प्राणिन आयूर्वानामेव / तथा सूक्ष्मसम्परायाः षड़िवधबन्धका विनिदिष्टां // 1 // मोहायुर्वानां प्रकृतीनां ते तु बन्धका भणिताः / /