SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ 148 श्री औपपातिकसूत्रम् 'अहोसिरे' अधोमुखो नोर्ध्वं तिर्यग्वा विक्षिप्तदृष्टिरिति भावः, 'झाणकोट्ठोवगए' ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो यः स तथा, यथा हि कोष्ठके धान्यं प्रक्षिप्तमेविकीर्णं भवत्येवं स भगवान् धर्मध्यानकोष्ठकमनुप्रविश्येन्द्रियमनांस्यधिकृत्य संवृतात्मा भवतीति भावः // 82 // ___83 - तए णं से भगवं गोतमे जायसड्ढे जायसंसए जायकोऊहल्ले उप्पण्णसड्डे उप्पण्णसंसए उप्पण्णकोऊहल्ले संजायसड्डे संजायसंसए संजायकोऊहल्ले समुप्पण्णसड्ढे समुप्पण्णसंसए समुप्पन्नकोऊहल्ले उट्ठाए उडेति उदाए उद्वेत्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपदाहिणं करेइ, करेत्ता वंदति, नमंसइ, वंदित्ता नमंसित्ता नच्चासन्ने नाइदूरे सुस्सूसमाणे नमसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासमाणे एवं वयासी-॥ 83 // [83] 'जायसड्डे' जाता-प्रवृत्ता श्रद्धा-इच्छाऽस्येति जातश्रद्धः, क्व?-वक्ष्यमाणानां पदार्थानां तत्त्वपरिज्ञाने, ‘जायसंसए' जातः संशयोऽस्येति जातसंशयः, संशयत्वनिर्धारितार्थं ज्ञानमुभयवस्त्वंशावलम्बितया प्रवृत्तं, स त्वेवं तस्य भगवतो जातः, यथा-श्रीमन्महावीरवर्द्धमानस्वामिना प्रथमाङ्गप्रथमश्रुतस्कन्धप्रथमाध्ययनप्रथममोद्देशके आत्मन उपपात उक्तः, स किमसत एवात्मनः उत सतः परिणामान्तरापत्तिरूपः, 'जायकोउहल्ले' जातं कुतूहलं-कौतुकं यस्य स तथा, कीदृशमुपपातं भगवान्वक्ष्यतीत्येवंरूपजातश्रवणौत्सुक्य इत्यर्थः, 'उप्पन्नसड्डे' प्रागभूता उत्पन्ना श्रद्धा यस्य स उत्पन्नश्रद्धः, अथोत्पन्नश्रद्धत्वस्य जातश्रद्धत्वस्य च कोऽर्थभेदः?, न कश्चिद्, अथ किमर्थं तत्प्रयोगः? उच्यते, हेतुत्वप्रदर्शनार्थः, तथाहि-उत्पन्नश्रद्धत्वाज्जातश्रद्धः प्रवृत्तश्रद्ध इत्यर्थः, 'संजायसड्डे' इत्यादौ च संशब्दः प्रकर्षादिवचनः अपरस्त्वाह-जाता श्रद्धा प्रष्टुं यस्य स जातश्रद्धः, कथं जातश्रद्धः? यस्माज्जातसंशयः, कथं संशय: अजनि?, यस्मात् प्राक्कुतूहलंकिंविधो नामायमुपपातो भविष्यतीत्येवंरूपमित्येष तावदवग्रहः, एवमुत्पन्न-सञ्जात-समुत्पन्नश्रद्धादय ईहा-ऽपाय-धारणाभेदेन वाच्या इति उपोद्घातग्रन्थो व्याख्यातः // 83 // ___84 - 'जीवे णं भंते ! असंजय अविरए अप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते पावकम्मं अण्हाइ ? हंता अण्हाइ // 84 // 1. B खं. / निक्षिप्त० मु. / / 2. B खं. / विप्रकीर्ण-मु. // 3. पंजलिकडे - पु. प्रे.. / 4. खं. / संशयस्तनि० मु. / / 5. हेतुभूतत्व० खं. // 6. अस्सं० पप्रे. //
SR No.004431
Book TitleUvavai Suttam
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherMahavir Jain Vidyalay
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy