________________ 147 ( ओववाइयपयरणं ) 82 - तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूई नामं अणगारे गोतमगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वज्जरिसभनारायसंघयणे कणग-पुलग-निघस-पम्ह-गोरे उग्गतवे दित्ततवे तत्ततवे महातवे ओराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविपुलतेयलेस्से समणस्स भगवओ महावीरस्स अदूरसामंते उड्ढुंजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ // 82 // . [82] 'तेणं कालेण'मित्यादि व्यक्तं, नवरं 'सत्तुस्सेहे'त्ति सप्तहस्तोच्छ्रयः, विशेषणद्वयं त्वागमसिद्धं, 'कनगपुलगनिघसपम्हगोरे' कनकस्य-सुवर्णस्य 'पुलग'त्ति पुलको-लवस्तस्य यो निकष:-कषपट्टे रेखालक्षणस्तथा पम्हत्ति-पद्मगर्भस्तद्वद्गौरो यः स तथा, वृद्धव्याख्या तु कनकस्य न लोहादेर्यः पुलकः-सारो वर्णातिशयस्तत्प्रधानो यो निकषो-रेखा तस्य यत्पक्ष्मबहुलत्वं तद्वद् यो गौरः स तथा, 'उग्गंतवे' उग्रम्-अप्रधृष्यं तपोऽस्येत्युग्रतपाः 'दित्ततवे' दीप्तहुताशन इव कर्मवनदाहकत्वेन ज्वलत्तेजः तपो यस्य स तथा, 'तत्ततवे' तप्तं-तापितं तपो येन स तप्ततपाः, एवं तेन तत्तपस्तप्तं येन कर्माणि सन्ताप्यन्ते तपसा स्वात्माऽपि तपोरूपः सन्तापितो, यतोऽन्यस्यास्पृश्यमिव जातमिति, 'महातवे' महातपाः प्रशस्ततपाः बृहत्तपा वा 'ओराले 'त्ति भीमः कथम् ?-अतिकष्टं तपः कुर्वन् पार्श्ववर्तिनामल्पसत्त्वानां भयानको भवति, अपरस्त्वाह'ओराले 'त्ति उदारः-प्रधानः 'घोर 'त्ति घोरो-निघृणः परीषहेन्द्रियकषायाख्यानां रिपूणां विनाशे कर्तव्ये, अन्ये त्वात्मनिरपेक्षं घोरमाहुः, 'घोरगुणे' घोराः-अन्यैर्दुरनुचरा गुणा:-मूलगुणादयो यस्य स तथा, 'घोरतवस्सी' घोरैस्तपोभिस्तपस्वी ‘घोरबंभचेरवासी' घोरं-दारुणमल्पसत्त्वैर्दुरनुचरत्वाद्यद् ब्रह्मचर्यं तत्र वस्तुं शीलं यस्य स तथा, 'उच्छूढसरीरे' उच्छूढम्-उज्झितमिवोज्झितं शरीरं येन तत्संस्कारत्यागात् स तथा, 'संखित्तविउलतेयलेस्से' संक्षिप्ता-शरीरान्तीना विपुला च विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राऽऽश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्याविशिष्टतपोजन्य-लब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, 'ऊर्दूजाणू' शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याया अभावाच्च उत्कुटुकासनः सन्नपदिश्यते, ऊर्श्वे जानुनी यस्य स ऊर्ध्वजानुः, 1. खं. / सन्ताप्य तेन-मु. // 2. ऊर्ध्वं - खं.