SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ सूत्र -71] प्रभुवीरस्य देशना 139 तु 'प्रत्यक्षप्रमाणंस्य भ्रान्तत्वात् कुवासनाजन्योऽयं तिर्यगादिप्रतिभासो न तत्सत्तानिबन्धन' इति ये मन्यन्ते तन्मतनिषेधार्थं, मातापितृसत्ताभिधानं तु ये मन्यन्ते-'योऽयं मातापितृव्यपदेशः स जनकत्वकृतो जनकत्वाच्च यूकाकृमिगण्डोलकादी न्यप्याश्रित्य स स्यात्, न चैवं, तस्मान्न वास्तवो मातापितृव्यवहार' इति, तन्मतनिरासार्थं, निरासश्च जनकत्वे समानेऽप्युपकारित्वकृतस्तद्व्यपदेश इति, तथा ये मन्यन्ते अतीन्द्रियार्थद्रष्टारो न सम्भवन्ति, रागादिमत्त्वात्पुरुषाणाम्, अस्मदादिवदिति तन्मतनिरासार्थमृषिसत्ताभिधानं, तन्निरासश्च चन्द्रोपरागादिज्ञानानामविसंवाददर्शनादिति, देवाद्यस्तिताभिधानं च ये मन्यन्ते-"न सन्ति देवादयोऽप्रत्यक्षत्वात्", तन्मतव्युदासार्थं, तत्र सिद्धिःईषत्प्राग्भारा निष्ठितार्थता वा सिद्धास्तु-तद्वन्तः परिनिर्वाणं-कर्मकृतसन्तापोपशान्त्या सुस्थत्वं परिनिर्वृतास्तु-तद्वन्तः, तथा ये मन्यन्ते-'प्राणातिपातादयो न बन्धमोक्षहेतवो भवन्ति, बन्धनीयस्य मोचनीयस्य च जीवस्याभावात्', तन्मतनिषेधार्थम् ‘अत्थि पाणाइवाए' इत्याद्युक्तं, केवलमत्र सूत्रे बन्ध मोक्षहेतुरिति वाक्यशेषो दृश्यः, इह च यावत्करणादिदं दृश्यं-'पेज्जे दोसे कलहे अब्भक्खाणे पेसुन्ने परपरिवाए अरइरई मायामोसे 'त्ति तत्र पेज्जेत्ति-प्रेमानभिव्यक्तमायालोभव्यक्तिकमभिष्वङ्गमानं 'दोसे 'त्ति द्वेषः अनभिव्यक्तक्रोधमानव्यक्तिकमप्रीतिमात्रं कलहो-राटी: अभ्याख्यानम्-असदोषारोपणं पैशुन्यं-प्रच्छन्नं सदोषाविष्करणं परपरिवादो-विप्रकीर्णं परेषां गुणदोषवचनम् 'अरइरइ'त्ति अरतिः-अरतिमोहनीयोदयाच्चित्तोद्वेगस्तत्फला रतिः-विषयेषु मोहनीयोदयाच्चित्ताभिरति: अरतिरतिः ‘मायामोसि'त्ति तृतीयकषाय-द्वितीयाश्रवयोः संयोगः, अनेन च सर्वसंयोगा उपलक्षिताः, अथवा वेषान्तरभाषान्तरकरणेन यत्परवञ्चनं तन्मायामृषावाद मिच्छादसणसल्ले, अत्थि पाणाइवायवेरमणे मुसावायवेरमणे अदत्तादाणवेरमणे मेहुणवेरमणे परिग्गहवेरमणे, अत्थि कोहविवेगे जाव अस्थि मिच्छादसणसल्लविवेगे, सव्वं अत्थिभावं अत्थित्ति वदति, सव्वं नत्थिभावं नस्थित्ति वयइ, सुचिण्णा कम्मा सुचिण्णफला भवंति, दुचिण्णा कम्मा दुचिण्णफला भवंति, फुसइ पुन्नपावे, पच्चायंति जीवा सफले कल्लाणपावए // 71 // इति, मिच्छादसणसल्ले त्ति मिथ्यादर्शनं शल्यमिव विविधव्यथानिबन्धनत्वात् मिथ्यादर्शनशल्यम् इति। 'पाणाइवायवेरमणे' इत्यादौ तु तत्सत्ताभिधानम् अप्रमादस्य सर्वथा कर्तुमशक्यत्वेन तदसम्भव इत्येतन्मतनिषेधार्थं, किं बहुना ?-'सव्वमत्थियभावं'ति अस्तीतिक्रियायुक्तो 1. खं. / ०दीनप्या० मु.। ०कानप्या०J / / 2. द्रष्टव्यं स्थानाङ्गे 1/114-125 //
SR No.004431
Book TitleUvavai Suttam
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherMahavir Jain Vidyalay
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy