SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ 138 श्री औपपातिकसूत्रम् णिज्जरा, अत्थि अरहंता, अत्थि चक्कवट्टी, अस्थि बलदेवा, अस्थि वासुदेवा, अस्थि नरका, अस्थि नेरइया, अत्थि तिरिक्खजोणिया, अत्थि तिरिक्खजोणिणीओ, अत्थि मणुस्सा, अत्थि मणुस्सीओ, अत्थि माता, अस्थि पिता, अत्थि रिसओ, अत्थि देवा, अत्थि देवीओ, अत्थि देवलोगो, अस्थि सिद्धा, अत्थि सिद्धि, अत्थि परिणिव्वाणे, अत्थि परिणिव्वुया, A अस्थि चारणा, अत्थि विज्जाहरा A अत्थि पाणाइवाए, अत्थि मुसावाए, एवं अदिण्णादाणे, मेहुणे परिग्गहे, अत्थि कोहे, एवं माणे, माया, लोभे, पेज्जे, दोसे, कलहे, अब्भक्खाणे, पेसुन्ने, परपरिवाए, अरतिरई, मायामोसे अस्थि 'आयरियमणारियाणं'ति आर्यदेशोत्पन्नतदितरनराणाम् ‘अप्पणो सभासाए परिणामेणं परिणमइ 'त्ति आर्यादीनामात्मनस्तत्सम्बन्धिजीवस्य स्वभाषाया-निजभाषायाः सम्बन्धिना परिणामेन-स्वरूपेण परिणमति-वर्तते / यादृशं धर्मं कथयति तदर्शनार्थमाह-'तं जहे'त्यादि, अस्थि लोगे' इत्यादि कल्लाणपावए' इत्येतदन्तं, सुगमं, नवरं लोकः-पञ्चास्तिकायमयः अलोकःकेवलाकाशरूपः, अनयोश्चास्तित्वाभिधानं शून्यवादनिरासार्थं, तन्निरासोपपत्तिश्च ग्रन्थान्तरावगम्या, एवं प्रायेणोत्तरत्रापि, अत्थि जीवा' अस्तीति क्रियावचनप्रतिरूपको निपातो बहुवचनार्थो द्रष्टव्यः, इदं च लोकायतमतनिषेधार्थमुक्तम्, 'अस्थि अजीव'त्ति पुरुषाद्वैतादिवांदनिषेधार्थम्, 'अस्थि बंधे अत्थि मोक्खे'त्ति बन्धः कर्मणा जीवस्य मोक्षः-सकलकर्मवियोगः तस्यैव, एतच्च द्वयं "संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिरेव, नात्मे'' त्येवंविधसाङ्ख्य मतनिषेधार्थमिति, ‘अस्थि पुण्णे अत्थि पावे'त्ति पापमेवापचीयमानमुपचीयमानं च सुखदुःखनिबन्धनं न पुण्यं कर्मास्ति, पुण्यमेव चोपचीयमानमपचीयमानं च सुखदुःखहेतुर्न पापमस्तीत्येवंविधवादनिरासार्थमुक्तं जगद्वैचित्र्यनिबन्धनकेवलस्वभाववादनिरासार्थं वा, ‘अत्थि आसवे अत्थि संवरे' कर्मबन्धहेतुराश्रवः, आश्रवनिरोधः संवरः, एतच्च बन्ध-मोक्षयोनिष्कारणत्वप्रतिषेधार्थं वीर्यप्राधान्यख्यापनार्थं वा, अत्थि वेयणा अस्थि णिज्जरा' वेदना-कर्मणोऽनुभवनं पीडा वा निर्जरा-देशतः कर्मक्षयः, एतच्च "नाभुक्तं क्षीयते कर्मे' त्येतत्प्रतिपादनार्थम्, अर्हदादिचतुष्कसत्ताभिधानं तु तद्भुवनातिशायित्वमश्रद्दधतां तच्छ्रद्धानोत्पादनार्थं, नरकनैरयिकास्तित्वप्रतिपादनं च प्रमाणाग्राह्यत्वात्ते न सन्तीति मतनिषेधार्थं, तिर्यगाद्यस्तित्वप्रतिपादनं 1. अत्थि मणुस्सा अस्थि मणुस्सीओ पु.प्रे. L अस्ति, मु.V नास्ति / / 2. AA चिह्नद्वयमध्यवर्तिपाठ: पु. प्रे. अस्ति मु. v नास्ति / / 3. अदत्तादाणे - B.V. || मुं.v नास्ति / / 4. खं. J // तच्छ्रद्धोत्पा० मु.॥
SR No.004431
Book TitleUvavai Suttam
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherMahavir Jain Vidyalay
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy