________________ सूत्र -71] प्रभुवीरस्य धर्मकथनम् 137 यस्याम् अनेकशतानि वा वृन्दानि यस्यां सा तथा तस्याः, 'अणेग-सयवंदपरियालाए' अनेकशतमानानि यानि वृन्दानि तानि परिवारो यस्याः सा तथा तस्याः। किम्भूतो भगवानित्याह'ओहबले 'त्ति अव्यवच्छिन्नबलः 'अइबले 'त्ति अतिशायिबलः 'महब्बले 'त्ति प्रशस्तबल: 'अपरिमियबलवीरियतेयमाहप्पकंतिजुत्ते' अपरिमितानि-अनन्तानि यानि बलादीनि तैर्युक्तो यः स तथा, तत्र बलं-शारीरः प्राणः वीर्य-जीवप्रभवं तेजो-दीप्तिः माहात्म्यं-महानुभावता कान्ति:-काम्यता, 'सारय-नवत्थणिय-महुर-गंभीर-कुंचनिग्घोस-दुंदुभिस्सरे' शारदंशरत्कालीनं यन्नवस्तनितं-मेघध्वनितं तदिव मधुरो गम्भीरश्च क्रौञ्चनिर्घोषवच्च दुन्दुभेरिव च स्वरो यस्य स तथा, किम्भूतया कथया धर्मं कथयतीत्याह- 'उरे वित्थडाए' उरसि विस्तृतया उरसो विस्तीर्णत्वात्, सरस्वत्येति योगः कंठे वट्टियाए' गलविवरस्य वर्तुलत्वात् 'सिरे समाइण्णाए' मूर्धनि सङ्कीर्णया आयामस्य मूर्जा स्खलितत्वात् 'अगरलाए'त्ति सुविभक्ताक्षरतया 'अमम्मणाए'त्ति अनपखञ्चयमानया 'सुव्वत्तक्खरसन्निवाइयाए' सुव्यक्तः अक्षरसन्निपातो-वर्णसंयोगो यस्यां सा तथा तया 'पुण्णरत्ताए'त्ति पूर्णा च स्वरकलाभिः रक्ता च-गेयरागानुरक्ता या सा तथा तया, क्वचिदिदं विशेषणद्वयं-'फुडविसयमहुरगंभीरगाहियाए' स्फुटविशदा-अत्यन्तव्यक्ताक्षरा स्फुटविषया वा- स्फुटार्था, मधुरा-कोमला गम्भीरा-महती ग्राहिका-अक्लेशेनार्थबोधिका, एतेषां कर्मधारयोऽतस्तया, 'सव्वक्खरसण्णिवाइयाए' सर्वाक्षराणां सन्निपात:-अवतारो यस्यामस्ति सर्वे वाऽक्षरसन्निपाता:- संयोगाः सन्ति यस्यां सा सर्वाक्षरसन्निपातिका तया, 'सरस्सइए' वाण्या 'जोयणनीहारिणा' योजनातिक्रामिणा स्वरेण 'अद्धमागहाए भासाए'त्ति "रसोर्लसौ( शौ) मागध्या' 'मित्यादि यन्मागधभाषालक्षणं तेनापरिपूर्णा प्राकृतभाषालक्षणबहुला अर्द्धमागधीत्युच्यते / तेसिं सव्वेसिं आयरियमणारियाणं अगिलाए धम्मं आइक्खइ सा विय णं अद्धमागहा भासा सव्वेसिं तेसिं आरियमणारियाणं * दुपयचउप्पयमियपसुपक्खिसिरीसिवाणं अप्पणो सभासाए परिणामेणं परिणमइ, तं जहा-अत्थि लोगे, अत्थि अलोगे, अस्थि जीवा, अस्थि अजीवा, अत्थि बंधे, अत्थि मोक्खे, अत्थि पुण्णे, अत्थि पावे, अत्थि आसवे, अत्थि संवरे, अत्थि वेयणा, अत्थि 1. खं / यस्यां सा तथा - मु. // 2. नि तानि वृन्दानि - J // 3. B खं. J / कंठेऽवट्ठियाए - मु. // 4. JI सङ्कीर्णग्रामस्य मूर्खास्तुलितत्वात् - खं. // 5. स्फूटा म० B / स्फुटा म० J // 6. "श्री सिद्धहेमशब्दानुशासने तु 8-4-288 तमं सूत्रं 'रसोर्लशौ' इति, तत्र मागध्यामित्यस्यानुवृत्तेर्लाभात्" इति मु.दि. // 7. ★★चिह्नद्वयमध्यवर्तिपाठः पु.प्रे. / अस्ति / मु. नास्ति / / 8. अप्पप्पणो पु.प्रे. // श्री औप. 18